________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मदास्यचिकित्सितम
३२५२ चरक-संहिता। मदात्ययचिकित्सितम्
शरीरदुःखं बलवत् प्रमोहो हृदयव्यथा। अरुचिः प्रतता तृष्णा ज्वरः शोतोष्णलक्षणः ॥ शिरम्पार्धास्थिसन्धीनां वेदना विक्षते यथा। जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः॥ उरोविबन्धः कासश्च श्वासो हिका प्रजागरः शरीरकम्पः कर्णाक्षि-मुखरोगस्त्रिकग्रहः ॥ छर्दिविड्भेद उत्क्ल शो वातपित्तकफात्मकः । भ्रमः प्रलापो रूपाणामसताश्चैव दर्शनम् ॥ तृणभस्मलतापर्ण-पांशुभिश्चावपूरणम् । प्रधर्षणं विहङ्गश्च भ्रान्तचेताः स मन्यते ॥ व्याकुलानामशस्तानां खप्नानां दर्शनानि च ।
मदात्ययस्य रूपाणि सर्वारयेतानि लक्षयेत् ॥ ३७॥ गङ्गाधरः-विशेषलक्षणमुक्तम् । सामान्यलक्षणमाह-शरीरदुःखमित्यादि। शीतोष्णलक्षणो ज्वरः क्षणे शोतं क्षणे चौष्ण्यम्। यथा विक्षते क्षते जाते वेदना तथा शिरप्रभृतिवेदना। जम्भा चातिवला। वातपित्तकफानको मदात्ययः सर्च एव। असतां मिथ्याभूतानां दर्शनम्। स्वप्ने तृणादिभिः अवपूरणं स मन्यते। विहङ्गैश्च प्रधणं स्वप्ने स मन्यते, भ्रान्तवताश्च भवति । एतानि सर्वाणि मदात्ययस्य रूपाणि लक्षयेत् ॥३७॥
.. चक्रपाणि:-शरीर खमित्यादि सर्वमदात्ययस्य सामान्य लक्षणं व्रते। किंवा विदोषमदात्ययस्येव लक्षणम् । यतो रोगसंग्रहे वातपित्तकफसचिपातैश्चरवारो मदास्यया उक्ताः। 'पुनश्च पक्षमः प्रोक्तो विषजो रौधिरश्च यः । सर्व एते मदाः प्रोक्ता वातपित्तकफनयात्' इत्यनेन मदात्य यस्य वातादित्वेन चातुर्विध्यमुक्तम् । मद एव आस्ययिको गदो मदात्यय इ युज्यते। स्फुरणं किंचित कम्पनम्। वेपनं एकदेशकम्पनम् । वातपित्तकमालक इति तत्क्लेशविशेषण समसर्वदोषः ।
For Private and Personal Use Only