________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४ अध्यायः] चिकित्सितस्थानम् ।
३२५१ तरुण मधुरप्रायं गौड़पष्टिकमेव वा। मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया ॥ अव्यायामदिवास्वप्न-शय्यासनसुखे रतः। मदात्ययं कफप्रायं प्राप्नोति स परं पुमान् ॥ छदारोचकहल्लास-तन्द्रास्तमित्यगौरवैः। विद्याच्छीतपरीतस्य कफप्राय मदात्ययम् ॥ ३५ ॥ विषस्य ये गुणा दृष्टाः सन्निपातप्रकोपकाः । त एव मदो दृश्यन्ते विषे तु बलवचराः॥ हन्त्याशु हि विषं किञ्चित् किश्चिद्रोगाय कल्पते । यथा विषं तथैवान्त्यो ज्ञयो मद्यकृतो मदः॥ तस्मात् त्रिदोषजं लिङ्गं सर्वत्रापि मदात्यये। दृश्यते रूपवैशेष्यात् पृथक्त्वञ्चापि लक्ष्यते ॥३६॥ गवाधरः-तरुणमित्यादि। कफप्रायं कफमधानम्। सर्वो हि मदात्यय. स्पैदोषिकः। छादिकं तस्य लिङ्गम् ॥ ३५॥
महाधरः-वातमायादिकं कुत उच्यते, इत्यत आह-विषस्येत्यादि । ये गुणा विषस्य तेऽपि मद्यस्य दश गुणा दृश्यन्ते, ते च सन्निपातप्रकोपकाः । कुतो न मद्यन म्रियन्त इत्यत आह । विषे विति। तत्तुल्यतां दर्शयति । हि यस्मात् विषे गुणा बलवत्तरास्तस्मात् यथा किश्चिद् विषमाशु हन्ति किञ्चिद विर्ष रोमाय कल्पते, तथैवान्त्यो मद्यस्य तृतीयो मद आशुघातको शेयः। तस्मात् त्रिदोषनं लिहं सर्वत्रापि मदात्यये दृश्यते, रूपवैशेष्मादुल्बणदोषण पृथकलश्च लक्ष्यते ॥३६॥ वर्शयति-स तु वात इति। पैत्तिकः वातोमणस्यैव मदात्ययः बातपित्तसंयोगतया भवति ॥३१-३५॥
पापाणिः-मयस्स विदोषकरने हेतुमाह-विषस्येत्यादि । यद्यपि मग्रमम्लं विषं स्वव्यक्तमधुरं तथापि बहुगुणसामान्यात त एव मद्य दृश्यन्ते इत्युक्तम् । तथैवान्स्यो मद इति-प्राणहरो मदकरश्चेत्यर्थः । पृथक्त्वमिति वातिकत्वादिना पार्थक्यम् ॥ ३६ ॥
For Private and Personal Use Only