________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२५०
चरक-संहिता। [मदात्ययचिकित्सितम् ऊर्द्ध मदात्ययस्यातः सम्भवं सखलक्षणम् । अग्निवेश चिकित्साश्च प्रवक्ष्यामि यथाक्रमम् ॥ ३२ ॥ स्त्रीशोकभयभाराव-कर्मभिर्योऽतिकर्षितः । रूक्षाल्पप्रमिताशी च यः पिबत्यतिमात्रया ॥ रूदं परिणतं मद्य निशि निद्रां निहत्य च। करोति तस्य तच्छीघ्र वातप्राय मदात्ययम् ॥ हिकाश्वासशिरःकम्प-पार्श्वशूलप्रजागरैः । विद्याद बहुप्रलापस्य वातप्रायं मदात्ययम् ॥ ३३ ॥ तोक्षणोष्णं मद्यमम्लञ्च योऽतिमात्रं निषेवते । अम्लोषणतीक्ष्णभोजी च क्रोधनोऽन्यातपप्रियः॥ तस्योपजायते पित्ताद विशेषेण मदात्ययः । लक्षणानि भवन्त्यस्य यानि तानि निबोध मे॥ तृष्णादाहज्वरस्वेद-मोहातिसारविभ्रमैः । विद्यारितवर्णस्य पित्तप्रायं मदात्ययम् ॥३४॥ गङ्गाधरः-ऊर्द्ध मित्यादि। अत ऊर्द्ध मदात्ययस्य सम्भवादिकं प्रवक्ष्याम्यनिवेश ॥३२॥
मङ्गाधरः-तत्रादौ सम्भवमाह-स्त्रीत्यादि। एषां पीतं तन्मय पातमा मदात्ययं करोति। तस्य लक्षणं हिक्केत्यादि ॥३३॥
गङ्गाधरः तीक्ष्णोष्णमित्यादि। तीक्ष्णोष्णादीनामतिसंवणात् पिचाद विशेषेण मदास्थय उपजायते। तस्य लिकं तृष्णादि ॥३४॥
पकपाणिः-मथशानदोषगुणमभिधाय मदात्ययकरं हेत्वादिमाह-अमित्यादि । सम्भव. मिति कारणम् ॥ ३२॥
चक्रपाणिः-वातप्रायमित्यादौ प्रायशब्देन वक्ष्यमाणानां सर्वमदात्ययाना सिदोषजन्यत्वं
For Private and Personal Use Only