________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४श अध्यायः ]
चिकित्सितस्थानम् ।
उत्सवादुत्सवतरं येषाञ्चान्योऽन्यदर्शनम् । ये सहायाः सुखं पाने तैः पिबन् सह मोदते ॥ गन्धरसस्पर्शोः शब्दश्वाति मनोहरैः । दिति सुसहाया ये ते व सुकृतिभिः समाः ॥ पञ्चभिर्विषयैरिष्ट रुपेतैर्मनसः प्रियैः । देशे काले पिवेन्मद्य प्रहृष्टेनान्तरात्मना ॥ स्थिर सत्वशरीरा ये पुराणा मद्यन्वयाः । बहुमयोचिता ये च माद्यन्ति सहसा न ते ॥ ३० ॥ क्षुत्पिपासापरीताश्च दुर्बला वातपैत्तिकाः । रूक्षाल्पप्रमिताहारा विश्रब्धाः सत्त्वदुलाः ॥ क्रोधिनोऽनुचिताः चीणाः परिश्रान्ता मदक्षताः । स्वल्पेनापि मदं शीघ्रं यान्ति मदग्न मानवाः ॥ ३१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
३२४६
उपाश्नुते । समानैः सह पाने यथा स्यात् तदाह - सुखशीला इत्यादि । ये सुखशीलादयस्ते खल्वापानं वर्द्धयन्ति ॥ २९ ॥
गङ्गाधरः - कस्माद् वर्द्धयन्ति ते इत्यत आह- उत्सवादित्यादि । येषा - मन्योऽन्यदर्शनमुत्सवादुत्सवतरं ये च सुखं पाने सहायाः स्युस्तैः सह पिबन् मोदते । हर्षान्तर हेतुमाह - रूपेत्यादि । मनोहरै रूपादिभिः सुसहाया ये मद्यं पिबन्ति, ते सुकृतिभिः समा भवन्ति । पञ्चभिर्विषयैरित्यादि । देशे काले प्रहृष्टेनान्तरात्मना मनसा इष्टैः पञ्चभिरर्थैरुपेतैः सह मद्यं पिबेत् । स्थिरेत्यादि । स्थिरे सारभूते सत्त्वशरीरे येषां ते पुराणाः पुराभवा मद्यपान्वयाः मद्यपानां वंशाः । बहुमद्योचिता अभ्यस्त बहुपद्यास्ते सहसा न माद्यन्ति ॥ ३० ॥
गङ्गाधरः- क्षुदित्यादि । क्षुत्पिपासापरीतादयो ये ते स्वल्पेनापि मद्यन शीघ्र मदं यान्ति । इति मद्यस्य पाने कृत्स्नं शुभाशुभादिकमुक्तम् ॥ ३१ ॥
For Private and Personal Use Only
चक्रपाणिः- मनोरमैरित्यक्ष साधीयत इति शेषः । एवं पानस्य प्रकृत्यनवद्यत्वात् । स्थिरसस्वेस्यादौ पुराणा इति पूर्वमुपयुक्तमद्याः । मद्यपान्वया इति मद्यपवंशजाः । तेषां मद्यपानं विकारकरं न भवति विषकन्याविषमिव ॥ ३० ॥ ३१ ॥