________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४८
चरक-संहिता। (मदात्ययचिकित्सिता. सौम्यासौम्यकथाप्रायं विशदाविशदं क्षणे। .... चित्रं राजसमाजानं प्रायेणाश्वन्तमाकुलम् । हप्रोतिकथोपेतमदुष्टं पानभोजने ॥ २७॥ सम्मोहक्रोधनिद्रान्तमापानं तामसं स्मृतम् ॥ २८॥ आने सात्विकान् बुद्धा तथा राजसतामसान् । जह्यात् सहान्यैः पोत्वा तु मद्यदोषानुपाश्नुते॥ सुखशोलाः सुसम्भाषाः सुमुखाः सम्मताः सताम् । कलासु वाक्यविषया विषयप्रबलाश्च ये॥ परस्परविधया ये येषामैक्यं सुहृत्त्या।
प्रहर्षप्रोतिमाधुय्यैरापानं वर्द्धयन्ति ते ॥ २६ ॥ - गङ्गाधर-राजसलक्षणमाह-सौम्यासौम्येत्यादि। क्षणे सौम्यकथा क्षणेऽतोम्यकथा यत्र तदापानं राजसं द्वितीयमदलक्षणयुक्तं राजसपुरुषस्य भवति। प्रायेणाशु शीघ्रमन्तो यस्य तत्। पानभोजने चादुष्टमिति राजसलक्षणम् ॥२७॥
गङ्गाधरः-तामसस्य लक्षणमाह-सम्मोहेत्यादि। तामसमापानं मदरूपं सम्मोहक्रोधनिद्राभिरन्तमस्य भवति ॥२८॥
गङ्गाधरः-एवं सात्त्विकादिज्ञानप्रयोजनमाह-आपान इत्यादि। मद्यस्य आपाने सम्यक्पाने प्रथमादिमदविशेषेण साखिकान् नरान् तथा राजसान् तामसांश्च बुद्धा सात्त्विकादिः स्वेतरौ जह्यात् । कस्मात् १ अन्यैः सह मद्य पीला तु मद्यदोषानुपाश्नुते। सात्त्विको राजसतामसैः सह पीला राजसः, सात्त्विकतामसैः सह पीला तामसः, सात्त्विकराजसैः सह पीला मघदोषान्
चक्रपाणिः-सौम्यासौम्येत्यादि रामसपानमाह-सौम्यासौम्यकथासम्बन्धात् । विशदाविशदमिति प्रसन्माप्रसन्नम्। चिमिति नानाप्रकारकम् । सम्मोहेस्यादिना तामसमाह-क्रोधो निद्रा न भन्ते यस्य तत् क्रोधनिद्रान्तम् ॥ २७ ॥ २८ ॥
चक्रपाणि:- रित्यनेन राजसतामसाः प्रत्यवमृश्यन्ते, तैरिव समं पिबन् तत्प्रसच्या स्वयमपि भतिक्विन् मायश्च द्वितोयतृतीयमददोषान् प्राप्नोति। उपादेयान् सास्विकान् आह-सुखशीला इत्यादि। सुमुखा इति प्रियाः। कलासु विशदाः कलाकुशलाः। भापानं बर्द्धयन्तीति मापाने प्रसादं वयन्ति न पानप्रसक्ति धयन्तीत्यर्थः। तस्याऽनिन्दितस्यात् ॥२९॥
For Private and Personal Use Only