________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५श अध्यायः चिकित्सितस्थानम्। ३२४७
प्रधानावरमध्यानां रुक्माणां व्यक्तिदर्शकः। यथाग्निरेव सत्त्वानां मद्य प्रकृतिदर्शकम् ॥ २५ ॥ सुगन्धिमाल्यगन्धर्वा सुप्रणोतमनाकुलम् । मिष्टान्नपानविशदं सदा मधुरसंकथम् ॥ सुखप्रपानं सुमदं हर्षप्रीतिविवर्द्धनम् । वर्त्त छ सात्त्विकमापानं न चोत्तरमदप्रदम् ॥ वैगुण्यं सहसा यान्ति मद्ययोगात् + न सात्त्विकाः।
सहसा न च गृह्णाति मदः सत्वबलाधिकम् ॥ २६ ॥ सम्बोधक हर्षमोहप्रकृतिदर्शकञ्चेत्युभयकारकम् । कथं हुताश इव मद्यमित्यत आह-प्रधानेत्यादि । अग्निरेव यथा रूक्माणां स्वर्णानां प्रधानादीनां त्रिविधानां व्यक्तिदर्शकः स्वर्णमनौ क्षिप्त दग्धं सदुत्तमं मध्यममधमश्चाग्निरेव दर्शयति, तथा मद्य पीतं सत्त्वानां सात्त्विकराजसतामसानां प्रकृतिदर्शकमिति ॥२५॥ ___ गङ्गाधरः-यथोत्तरं मदं न प्राप्नोति मद्यपः सालिकादिभेदेन तदाहसुगन्धीत्यादि। तत् सात्त्विकमापानं मद्यस्य यन्न चोसरमदपदं सुगन्धि यत् माल्यगन्धैर्वा युक्तं सुप्रणीतादिकञ्च यद् भवति, सुप्रणीतं मन्त्रसंस्कृतम्। मिष्टैर्मधुरैरन्नैः पानैश्च विशदं निर्मलम्। मधुरसंकथं परस्परं मधुरं मनोशमालापं कुर्वन्ति यत्र । स्वत स्वस्य ऋतुर्यत्र तत् आपानम् । सात्त्विका हि नरा मद्ययोगात् सहसा वैगुण्यं मनोवैगुण्यं न यान्ति। सत्त्ववलाधिक नरं मयं न पड़ रसान् गृह्णाति। द्विकर्माकोऽयं ग्रहिः ॥२६॥ तु सर्वथापि अव्यक्त भवतीति भावः। केचित् तु 'सत्त्वसम्बोधक हर्ष' इत्यादिकं पठन्ति । प्रकृतिदर्शको हुताशो यथा सुवर्णस्य शुद्धाशुद्धतां दर्शयति मद्य तथाकारकमिति मनःप्रबोधक मनोगुणादर्शकञ्च । रुक्माणामिति हेमरूपाणाम्। व्यक्तिदर्शक इति भाकारदर्शकः ॥ २५॥
चक्रपाणिः-सात्त्विकादिभेदेन पानं विविधमाह-सुगन्धीत्यादि । शोभनो गन्धो यस्य तत् सुगन्धि। स्वन्तमिति स्वतन्त्रम् । न चोत्तममदप्रदमिति नोत्तममदकरम् । कदाचिदपि मद्यपानात् द्वितीयमदाशका न भवति। उत्तममदः सात्त्विके न भवतीत्यर्थः। उत्तममदाप्राप्ती हेतुमाहबैगुण्यमित्यादि। सत्त्वयोगादिति सत्त्वाख्यगुणयोगात्। सत्त्वाख्यो हि गुण प्रकाशकतया न मोहेनाभिभूषत इति भावः ॥ २६॥ • स्वर्ग इत्यस सन्त शस्तमिति च पाठो दृश्यते। सत्त्वयोगादिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only