________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४६
चरक-संहिता ॥ (मदात्ययचिकित्सितम् मद्यस्य च गुणान् सर्वान् यथोक्तान् स समश्नुते। धर्मार्थयोरपीडायै नरः सत्वगुणोत्थितः ॥ २४ ॥
सत्त्वानि तु प्रबुध्यन्ते प्रायशः प्रथमे मदे। द्वितीये व्यक्तता यान्ति मध्ये चोत्तरमध्ययोः॥ सत्त्वसम्बोधकं हर्ष-मोहप्रकृतिदर्शकम् ।
हुताश इव भूतानां मयन्तूभयकारकम् ॥ पानानि पार्थिवाप्यतेजसानि । तत्र पाथिवमिक्षरसादि। आप्यं क्षीरजलादि । तैजसं घृतादि। वयांसि त्रीणि प्रथममध्यमवार्द्ध क्यानि। व्याधयस्त्रयः पातिकपैत्तिकश्लैष्मिकाः। त्रीणि बलानि प्रवरमध्यमावराणि। त्रयः कालाः शीतोष्णवर्षलक्षणाः। इति त्रिकाणि षट्। त्रीन् दोषान् वातादीन् त्रिविधं सत्त्वं मनः सात्त्विकं राजसं तामसञ्चेत्यष्टौ त्रिकाणि भवन्ति । एषां योजना युक्तिर्यया युक्त्या मद्य पिबन् मद्यपानदोषैर्न सत्त्वगुणान्वितो नरः पुमान् युज्यते। ये मद्यस्य गुणा उक्तास्तान् मद्यगुणांश्च तया युक्त्या युक्तं मद्य पिबन्ननुते धर्मार्थयोरपीडायै च भवति ॥२४॥
गङ्गाधर:-सत्त्वानीत्यादि। प्रथमे मद प्रायशः सत्त्वानि मनांसि प्रबध्यन्ते । द्वितीये मध्यमे मदे सत्त्वानि व्यक्ततां यान्ति। उत्तरमध्ययोमैदयोर्मध्ये सन्धी च शेषे च व्यक्ततां सत्त्वानि यान्ति। कथं सत्त्वानि प्रबुध्यन्त इत्यत आहसत्त्वेत्यादि। सर्वभूतानां हुताश इव मद्यन्तु सत्त्वसम्बोधकं सात्किादिमनःमृतमध्यतीघभेदेन विविधः, किंवा सौम्याग्नेयायव्यभेदेन विविधः। बलं प्रवरावरमध्यभेदात् विविधम् । कालस्तु शीतोष्णवर्षलक्षणरित्रविधः। विविधं सत्त्वं शुद्धं राजसं तामसञ्च । योजनेति सम्यग् योजनानुरूपा । सम्यग् युक्तिमवधारयति-यया युक्तवत्यादिना । सत्त्वगुणोच्छितः समानुसे इति योज्यम् । तत्र वातापेक्षया युक्तिः, यथा--वातहरमन्नमुपयुज्य वातहरं मद्य पेयम्, एवं पित्तहरफहरत्वेऽपि पित्तकफहरानोपयोगे तद्धरं मद्य योज्यम् । एवं पानाथपेक्षयापि योजना व्याख्याता भवति। बाल्ये स्थविरे घातीक्ष्णं मध्यं यौवने तीक्ष्णम् । सम्प्रति व्याध्यपेक्षयापि योजना। यथा मृदयाधौ तीक्ष्णोष्णं, उष्णे च शीतमधुरं वर्षाकाले तु स्निग्धं दीपनञ्च मयम्। दोषभेदेन तु मद्य वाते स्निग्धोष्णं गौडिकादि, पित्ते शीतमधुरं शार्करादि, कफे रूक्षं माधवादि। उक्तं हि 'पातिकेभ्यो हितं मद्यप्रायो गौडिकपैष्टिकम् । कफपित्ताधिकेभ्यस्तु मद्य माधवशार्करम्' इति । दोषग्रहणेनैव वातलादिप्रकृतिरपि गृहीता । सत्त्वभेदे नापि साचिवकेन तीक्ष्णं राजसतामसमध्यमल्पञ्च ॥२४॥
चक्रपाणिः-सत्त्वानीति मनांसि। अव्यक्ततामीपद्वपक्ततां मध्ये चाव्यक्ततां याति । उत्तमे
For Private and Personal Use Only