________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः
२४श अध्यायः । चिकित्सितस्थानम् । ३२५.५
मदरोक्लिष्टन दोषेण क्रुद्धः स्रोतःसु मारुतः। वेदनां कुरुते तीत्रां शिरःखस्थिषु सन्धिषु ॥ विष्यन्दनाथं दोषस्य तस्य मदन विशेषतः। व्यवायितीक्ष्णोष्णतया देयमम्लेषु सत्खपि । स्रोतोविबन्धनुन्मदा मारुतस्यानुलोमनम् । रोचनं दीपनञ्चाग्नेरभ्यासात् सात्म्यमेव च ॥ उरःस्रोतःसु शुद्धेषु मारुतै चानुलोमिते । निवर्तन्ते विकाराश्च सात्म्यस्तस्य मदोदयः ॥ ४३॥ वीजपूरकवृक्षाम्ल-कोलदाडिमसंयुतम् । यमानीहवुषाजाजी-शृङ्गवेरावचूर्णितम् ॥ सस्नेहः सक्तुभिर्युक्तमवदंशैश्चिरोत्थितम् । ददात् सलवणं मदा पैष्टिकं वातशान्तये ॥ ४४ ॥ गङ्गाधरः--मद्य त्यादि। मद्योत्ले शदोषेण स्रोतःसु क्रुद्धो मारुतो वर्त्तते। शिरःप्रभृतिषु च वेदनां कुरुने। तस्य स्रोतःस्थमद्योक्लिष्टदोषस्य विष्यन्दनार्थ द्रवीकृत्य सावणार्थ व्यवायिखादिमत्त्वान्मद्य सत्स्वप्यन्येष्वम्लेषु विशेषतो देयमिति। स्रोत इत्यादि। मद्य स्रोतोविबन्धनुदित्येवमादिकं तस्य सम्यक पानेन उरःस्रोतःसु शुद्धेषु मारुते चानुलोमिते मद्यकृता विकारा निवर्तन्ते सात्म्यश्च मदोदयस्तस्य स्यादिति ॥४३॥
गङ्गाधरः-तत्र दोषभेदे मद्यप्रयोगमाह । वीजपूरकेत्यादि । शृङ्गवेरं शुण्ठी । सक्तुभिरेवावदशैर्युक्तं चिरोत्थितं पुराणं पैष्टिकं मद्यम्। वीजपूरकादेतदन्त एकयोगः॥४४॥
चक्रपाणिः—उपर्यु परीति अत्यर्थ श्रेष्ठ इत्यर्थः। मदोदय इति मदनिमित्तास्तर्षादयः । केचित् तु ज्वरप्रधानास्तर्षादय इत्यर्थ उन्नेय इत्याहुः। अवदंशो यमुपयुज्य मद्य पीयते।
For Private and Personal Use Only