________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४२
चरक-संहिता। [मदात्यचिकित्सितम् तृतीयन्तु मदं प्राप्य भग्नदार्विव निष्क्रियः। बहुमोहावृतमना जीवन्नपि मृतैः समः॥ रमणीयान् स विषयान् न वेत्ति न सुहृज्जनम् । यदर्थं पीयते मद्य रतिं ताश्च न विन्दति ॥ कार्याकार्य सुखं दुःखं यच्च लोके हिताहितम् । यदवस्थो न जानाति कोऽवस्थां तां व्रजेद् बुधः॥ स दूष्यः सर्वभूतानां निन्धश्चासह्य एव च। व्यसनित्वादुद च स दुःखं व्याधिमश्नुते ॥ १६ ॥ प्रत्य चेह च यच्छ्रेयः श्रेयो मोक्षे च यत् परम् । मनःसमाधौ तत् सर्वमायत्तं सर्वदेहिनाम् ॥ १७ ॥ मदोन मनसश्चास्य संक्षोभः क्रियते महान् । महामारुतवेगेन तटस्थस्येव शाखिनः॥ गङ्गाधरः-तृतीयमदलक्षणमाह-तृतीयन्त्वित्यादि। जीवन्नपि मृतैः समो विसंशः स रमणीयान् विषयान् न वेत्ति न च मुहजनं वेत्ति। यदर्थ मद्य पीयते ताश्च र ते न विन्दति। यदवस्थः सन् नरो न काय्याकार्यादिकं जानाति तामवस्था को बुधो व्रजेत् । स तदवस्थां गतो नरो दृष्यः सर्वभूतानां निन्दाश्चासह्यश्च । कस्मात् ? व्यसनिलात् । “व्यसनं क्लीवलिङ्गं स्याव्यापत्तौ काम-कोपजे। दोषे भ्रशे च” इति। उदके उत्तरकाले स दुःवं व्याधिमश्नुते ॥१६॥
गङ्गाधरः-इह प्रेत्य च मोक्षे च यत् श्रेयस्तत् सर्व सव्वेदेहिनां मनः समाधावायत्तं युक्ते मद्य तु मनःसमाधिर्भवतीति भावः ॥१७॥
गङ्गाधरः-तृतीयमदकृन्मद्यपानदोषमाह-मदानेत्यादि। मदानातिपीतेन पीतवतोऽस्य मनसो महान् संक्षोभः क्रियते। यथा तटस्थस्य शाखिनः
चक्रपाणिः-भग्नदादिति भग्नवृक्ष इव पतितस्तिष्ठति। उदकं उत्तरकालः। स दुःखं व्याधिमिति मदात्ययम् ॥ १६॥
चक्रपाणिः-प्रेत्य चेहेत्यादिना प्रेत्येति जन्मान्तरे । तटस्थस्येति वचनेन वातोरक्षेप्यतां दर्शयति ।
For Private and Personal Use Only