________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४श अध्यायः] चिकित्सितस्थानम्। ३२४१
स्थानपानान्नसंकथ्य-योजनाः सविपर्ययाः। लिङ्गान्येतानि जानीयादाविष्टे मध्यमे मदे ॥१४॥ मध्यमं मदमुत्क्रम्य मदमप्राप्य चोत्तरम् । न किञ्चिन्नाशुभं कुर्य्यनरा राजसतामसाः ॥ को मदं तादृशं विद्वानुन्मादमिव दारुणम्। कुर्य्यादध्वानमासन्न ® बहुदोषमिवाध्वगः॥ १५॥ गङ्गाधरः-मध्यममदमाह-मुहुरित्यादि। स्थानं पानमन्नं संकथ्यं परस्परभाष्यं यत् तेषां क्षणं योजनाश्च भवन्ति, क्षणं तेषां विपर्यायाश्च भवन्ति । मध्यमे मद लिङ्गान्येतानि भवन्ति ॥१४॥
गङ्गाधरः-अथात्र मध्यमोत्तरयोमेदयोः सन्धी मदे लक्षणमाह-मध्यममित्यादि । राजसतामसा नरा मध्यमं मदमुत्क्रम्य उत्तीय्ये तृतीयमुत्तरं मदश्चाप्राप्य किश्चिच्छुभं कम्मै न कुयुः किञ्चिदशुभं न कुय्यु रेवं भवति । शुभाशुभकम्मवर्जी स्यात्। उन्मादमिव दारुणं तादृशं शुभाशुभाकारिणं मदं को जनः कुय्योत् ? कोऽपि न कुय्योत् । अध्वगो जनः को बहुदोषमध्वानमासन्नं कुर्यादितिवदिति राजसानां तामसानामेव च मध्यमोत्तरमदसन्धौ भवति न तु सात्त्विकानां तथाविधः सन्धिकाले मदो भवति। इमं सन्ध्यवस्थं मदं कश्चित् तृतीयं मदं प्रकल्प्य लक्षणमुक्तवान्। “गच्छेदगम्यां न गुरूंश्च मन्येत् खादेदभक्ष्याणि च नष्टसंशः। ब याच्च गुह्यानि हृदि स्थितानि मदे तृतीये पुरुषो ऽस्वतन्त्रः॥” इति। मुश्रुते तु नैष सन्धिमद उक्तः। “अवस्थश्च मदो शेयः पूच्चों मध्योऽथ पश्चिमः। पूर्व वीर्यरतिप्रीति-हर्ष भाष्यादिवर्द्धनम्। प्रलापो मध्यमे हर्षों युक्तायुक्ता क्रिया तथा। विसंशः पश्चिमे शेते नष्टकम्मे क्रियागुणः॥” इति ॥१५॥ सविपर्ययेति स्थानादीनां सम्यग योजना कदाचित भवति, कदाचिच्च स्थानादियोजनाऽसम्यकतया भवतीत्यर्थः ॥१४॥
चक्रपाणिः-मध्यममदमित्युत्तवा मद्यस्य विविधो मद उक्तः। तथापि द्वितीयमदावसाने तृतीयमदाप्राप्त्यवस्थायामेव अत्यन्तनिन्दितां दर्शयन् तृतीयमदस्य अत्यन्तनिन्दितां दर्शयति । येन यस्य तृतीयमदस्य पूर्वरूपावस्थैव सर्वाशुभकरणादिहेतुतया नितान्त निन्या इत्यर्थः । इयञ्च मध्यमदातिक्रमात् तृतीयमदप्राप्त्यवस्थामभिधाय परमार्थतः चतुर्थमदावस्थानुमिता भवति। अस्वन्तं अशोभनान्तम् ॥ १५ ॥ . अस्वन्तमिति चक्रसम्मतः पाठः।
For Private and Personal Use Only