________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४०
चरक-संहिता। मदात्ययचिकित्सितम् हृदि मद्यगुणाविष्टे हर्षस्त! रतिः सुखम् । विकागश्च यथासत्त्वं चित्रा राजसतामसाः ॥ जायन्ते मोहनिद्रार्ता मद्यस्यातिनिषेवणात्। स मद्यविभ्रमो नाम्ना मद इत्यभिधीयते ॥ ११॥ .. पीयमानस्य मद्यस्य विज्ञातव्यास्त्रयो मदाः। प्रथमो मध्यमोऽल्पश्च लक्षणैस्तान् प्रचक्षते ॥१२॥ प्रहर्षणः प्रीतिकरः पानान्नगुणदर्शकः । पाठगीतप्रभाष्याणां कथानाञ्च प्रवर्तकः॥ न च बुद्धिस्मृतिहरो विषयेषु न चानमः। सुखं निद्राप्रबोधश्च प्रथमः सुखदो मदः ॥ १३ ॥ मुहः स्मृतिमहर्मोही व्यक्ताऽव्यक्ता च वाङ् मुहुः ।
युक्तायुक्तप्रलापश्च प्रपलायनमेव च ॥ गङ्गाधरः- हृदीत्यादि। हदि मद्यगुणाविष्टे सति हर्षतर्षरतिसुखानि स्युः। यथासत्त्वं यथा सात्त्विकादिमनस्तथा विकारा मनसो मदरूपा विकारा जायन्ते । स मदो नाम्ना मद्यविभ्रम इत्यभिधीयते ॥११॥
गङ्गाधरः-मद्यमदाः कतिधेत्यत आह-पीयेत्यादि। त्रयो मदास्तत्र प्रथम इत्युत्तमः॥१२॥
गङ्गाधरः-एषां लक्षणमाह-प्रहर्षण इत्यादि। पानानगुणदर्शकः यत् पीयते यदद्यते तेषां गुणान् दर्शयति न तु लोपयति। इति प्रथमो मदः सुखदः॥१३॥
चक्रपाणिः-हृदीत्यादिना सामान्येन मदलक्षणमाह। तर्षोऽभिलाषः । यथासत्त्वमिति राजसे राजसाः तामसे तामसाः। चित्रा इति नानाप्रकाराः। मोहनिद्रान्ता इति मोहनिद्रावसानाः । ११ । १२॥
चक्रपाणिः-प्रथमादिमदानां लक्षणमाह-प्रहर्षण इत्यादि। पानामगुणदर्शक इति पानानगुणान् बोधयतीत्यी। विषयेषु तु विषयसेवासु। न चाक्षमः नासमर्थकर इत्यर्थः ॥३॥
चक्रपाणिः-बुक्तायुक्तप्रलाप इति संज्ञासंज्ञिवचनः। प्रपलायनं घूर्णनम्। योजना
For Private and Personal Use Only