________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४ अध्यायः
चिकित्सितस्थानम् । ३२४३ मद्यप्रसङ्ग तं ज्ञात्वा महादोषं महागदम्। सुखमित्यधिगच्छन्ति रजोमोहपराजिताः॥ मद्योपहतविज्ञानाद विमुक्ताः सात्त्विकैर्गणैः । श्रेयोभिर्विप्रयुज्यन्ते मदान्धा मद्यलालसाः ॥ १८ ॥ मदो मोहो भयं शोकः क्रोधो मृत्युश्च संश्रितः। सोन्मादमदमूर्छाद्याः सापस्मारापतानकाः॥ यत्रैकः स्मृतिविभ्रशस्ततः सर्वमसाधुवत् । इत्येवं मद्यदोषज्ञा मद्य निन्दन्ति तत्त्वतः ॥ १६ ॥ सत्यमेते महादोषा मद्यस्योक्ता न संशयः । अहितस्यातिमात्रस्य पोतस्यातो विवर्जितम् ॥ किन्तु मद्य स्वभावेन यथैवान्नं तथा स्मृतम् ।
अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामृतम् ॥ २०॥ महामारुतवेगेन महान् संक्षोभः क्रियते। तं मद्यप्रसङ्गं तृतीयमदासक्तिं महादोषं महागदं शाखापि रजोमोहपराजिता नराः सुख मिति मखाऽधिगच्छन्ति । सात्त्विकैर्गुणैविमुक्ता रजोमोहपराजिता मद्योपहतविज्ञानात् तृतीयमदनान्धा मदान्धा मद्यलालसाः श्रेयोभिर्विप्रयुज्यन्ते विप्रयोगवन्तः स्युः॥१८॥
गङ्गाधरः-मद्य इत्यादि। मद्य मोहादिः संश्रितः। सोन्मादमदादयश्च मद्य संश्रिताः। यत्र मद्य खल्वेको मुख्यः स्मृतिविभ्रंशस्ततः सर्वमन्यन्मद्य ऽसाधुवदिति। इत्येवं मद्यदोषशा मद्य निन्दन्ति तत्त्वतः ॥१९॥
गङ्गाधरः-सत्यञ्चैते महादोषा मद्यदोषज्ञरसंशयं मद्यस्योक्ताः। अतिमात्रस्य मद्यस्य पीतस्याहितस्य विवज्जनमत इष्टम्। किन्तु मद्य स्वभावेन यथवान्नं मथमित्यादिना स्वमतमाह-एते दोषा मद्यस्य अहितादिधर्मयुक्तस्यैव भवन्ति न विपरीतस्येति भावः। विधिवर्जितमिति क्रियाविशेषणम्। मद्यस्य विधिवदुपयोगे गुणवत्ता अविध्युपयोगे च दोषदत्तामाह-किन्त्वित्यादि । अयुक्तियुक्तमित्यविधिप्रयुक्तम् । उभयथा देशकालमानापेक्षया नक्षया योजनया उक्तं शुभमशुभञ्च कार्यकरं भवति ॥ १७-२०॥
* पीतस्य विधिवर्जितम् इति चक्रवतः ।
-
For Private and Personal Use Only