________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुविंशोऽध्यायः। अथातो मदात्ययचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ सुरः सुरेशसहितैर्या पुरा प्रतिपूजिता। सौत्रामण्यां हूयते या कर्मभिर्या प्रतिष्ठिता ॥ यज्ञ हि या च शक्रस्य सोमोऽतिपतितो यया। नीरजस्तमसाविष्टस्तस्माद दुर्गात् समुद्धृतः॥ विधिभिवेदविहितैर्ययेज्यन्ते महात्मभिः।
दृश्या स्पृश्या प्रकल्प्या च यज्ञ या यज्ञसिद्धये ॥ गङ्गाधरः--उदिष्टक्रमाद् विषतुल्यगुणवाचानन्तरं मद्यविकारचिकित्सित. माह-अथात इत्यादि। पूर्ववत् सर्च व्याख्येयम् । मद्यविकारविशेषमदात्ययचिकित सितमधिकृत्य कृतोऽध्याय इति मदात्ययचिकित्सितमिति ॥१॥
गङ्गाधरः—मदात्ययरोगे वाच्ये मद्यस्य गुणादय उच्यन्ते। तद्यथासुरैरत्यादि। इन्द्रसहितः सुरः पुरा या सुरा प्रतिपूजिता। सौत्रामण्यामिष्टौ या सुरा हूयते। या कम्मभिर्वदिकः प्रतिष्ठिता प्रतिष्ठां गता। या च शक्रस्य यज्ञ प्रतिष्ठिता। नीरजोऽब्जः सोमः समुद्रमन्थने जलादुत्थितः सोमस्तमसाविष्टोऽतिपतितस्तस्मात् तमस आवेशाद दुर्गाद यया मुरया समुद्धतः। यया सुरया महात्मभिर्वेदविधिभिरिज्यन्ते। या यक्षसिद्धये यशे महात्मभि श्यादृश्यत्वेन प्रकल्प्या, स्पृश्यास्पृश्यत्वेन प्रकल्प्या च,
चक्रपाणिः-मोहजनकत्वसामान्यात् तथा विषसमानगुणजन्यत्वाञ्च विषचिकित्सितमनु मदात्ययस्य चिकित्सितमुच्यते सुरैरित्यादिना। मदिशस्तुत्या तथा वक्ष्यमाणनिन्दया विषसमानसुरायाः सुतकलखनाशाय अविधिपानञ्च अत्यर्थनिन्दितफलवत्वं दर्शयति। या सुरा परिपूजिता इत्यनेन प्रथमं देवरेवं परिपूजिता ततः सुरयोगात् सुरेति उपदिष्टा इति दर्शयति । सौत्रामणिर्यज्ञविशेषः तस्मिन् हुयते, या सुरा कर्मभिः प्रतिष्ठिनेति याज्ञिकैः अभिसवनं सुरया क्रियते इत्युच्यते। सौतामणिहोमे तु यत्रैवेयमङ्गमुच्यते शक्रस्य, सोमोऽतिपतित इति शुक्रस्यातिपातेन सोमः क्षपितबलो निर्वीर्यो मूतः। स किल पुनरपि अनयापनीतक्षयः आपादि इत्येषा अतिः। अतिपातेन परीतः अतिपतितः। प्रकल्प्या इत्यभिषोतव्या सन्धानीयेति यावत् । यज्ञसिद्धय इति यज्ञविधौ कानिचित् यूपबादीनि कानिचित् तु पुरुषार्थानि अद्भयादीनि कानिचित्
For Private and Personal Use Only