________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२३२
चरक संहिता |
वज्र' मरकतः सारः पिचुकी विषमुष्टिका । कर्कोटकं सर्पमणिवैदूय्य गजमौक्तिकम् ॥ धाय्यं वरमणिर्याश्च वरौषध्यो विषापहाः । खगाश्च सारिकाः क्रौञ्चाः शिखिहंसशुकादयः ॥ ७० ॥ इतीदमुक्तं द्विविधस्य विस्तरैर्बहुप्रकारैर्विपरोगभेषजम् । अधीत्य यः सम्यगिह प्रयोजयेद् व्रजेद्विषाणामविसह्यतां भिषग् ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने विषरोगचिकित्सितं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
तदशक्तस्तु लोष्ट्र' दशेत् । उपरि दंशदेशादुपरि चतुरङले मन्त्रेणारिष्टां बनीयात्, अरिष्टाबन्धनानदेशे दंगे छिला दहेत वा । वज्रमित्यादि । सर्पादिदंशनवारणार्थं वज्रादिकं पुसा धार्य्यम् । वरमणिश्च धार्य्यः विषापहा बरौषध्यश्च धाः । खगाच विषापहाः सारिकादयो विषतो रक्षणार्थं स विषान्नविज्ञानाथ गृहे धार्य्या इति ॥ ७० ॥
गङ्गाधरः - अध्यायार्थमुपसंहारेणाह - इतीदमित्यादि । द्विविधस्य स्थावरजङ्गमस्य । इति ॥ ७१ ॥ अग्निवेशकृते तन्त्रे चरकमतिसंस्कृते । अप्राप्ते तु दृढ़बल प्रतिसंस्कृत एव तु । चिकित्सिते विषाणान्तु त्रयोविंशेऽध्याये पुनः । वैद्यगङ्गाधरकृते जल्पकल्पतरौ ततः । चिकित्सास्थानजल्पे तु षष्ठस्कन्धे विषस्य च । चिकित्सितजल्पो नाम शाखा त्रयोदशी स्मृता ॥ २३ ॥
इत्यगदतन्त्रम् ॥
चक्रपाणिः - दंशकाले यत कर्तव्यं तदाह--दष्टमात्र इत्यादि । धारणादेव विषापहमाहवज्रमित्यादि । सारमिति सवज्रम् । पिचुको मणिरुत्तरापथे प्रसिद्धः । विषमूषिका विषमणिः । कर्कोटकमणिः पद्मरागः । गरमणिशब्देन नानामणीनां ग्रहणम् । वरौषध्य इति तन्त्रान्तरोक्ताः अक्षीरा - जलपिप्पली- अजरुहा- काकोलीप्रभृतयः । इतीदमित्यादिसंग्रहः । ब्रजेद्विषाणामति
विषाणि सोढुं पारयन्तीति भावः ॥ ७० ॥ ७१ ॥
For Private and Personal Use Only
[विषचिकित्सितम्
इति महामहोपाध्याय - चरक चतुरानन- श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां विषचिकित्सितं
नाम त्रयोविंशोऽध्यायः ॥ २३ ॥