________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयोऽध्यायः। अथातः पुष्पितमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः ॥ १ ॥ पुष्पं यथा पूर्वरूपं फलस्येह भविष्यतः । तथा लिङ्गमरिष्टाख्यं पूर्वरूपं मरिष्यतः॥ अध्येवन्तु भवेत् पुष्पं फलेनाननुबन्धि यत् । फलश्चापि भवेत् किञ्चिद् यस्य पुष्पं न पूर्वजम् ॥ न त्वरिष्टस्य जातस्य नाशोऽस्ति मरणाहते। मरणश्चापि तन्नास्ति यन्नारिष्टपुरःसरम् ॥ २॥ गङ्गाधरः---अथोद्देशानुक्रमवाद वर्णस्वरपरीक्षोपदेशानन्तरं गन्धरसपरीक्षार्थ पुष्पितकमिन्द्रियमारभते- अथेत्यादि। फलस्य पूर्वरूपं पुष्पमिति । पुष्पितमधिकृत्य कृतोऽध्याय इति पुष्पितकम् ॥१॥ .
गङ्गाधरः-पुष्पमित्यादि। भविष्यतः फलस्य पूर्वरूपं पुप्पं यथा, तथा मरिष्यतः पुरुषस्य अरिष्टाख्यं लिङ्गं भविष्यन्मरणस्य पूर्वरूपम् । तत्र व्यभिचारं दर्शयति-अप्येवन्वित्यादि। न केवलं फलस्य भविष्यत एव पुष्पं पूर्वरूपं फलेनाननुबन्धि फलजनकसं विनापि, पुष्पस्य सद्भावोऽस्ति । अपि च यस्य फलस्य पूर्वजं पुष्पं न भवति, तदपि किञ्चित् फलम स्ति, यथोडम्बराश्वत्थघटादिफलं पुष्पं विनापि भवति। न तु तथारिष्टस्य जातस्य नाशोऽस्ति मरणाहते
चक्रपाणिः ---वर्णस्वरानन्तरं गन्धस्य कृतत्वानिर्दिष्टत्वाच तदाश्रयिरिष्टप्रतिपादकं पुष्पितकमुच्यते--पुष्पं यथेत्यादि। प्रकरणार्थी यद्यपि सकलेन्द्रियसाधारणतया प्रथमाध्याय एवं वक्त युज्यते, तथापीह पुष्पानुकारण गन्धाश्रयिरिष्टस्य वाच्यत्वात् पुष्पं प्रकृतम्, तत्प्रसङ्गाञ्च रिष्टस्य पुष्पधर्मख्यापकमपि प्रकरणामहोच्यते। पुष्पं यथेत्यादी अव्यभिचरितफलसम्बन्धमेव पुष्पम् । अत एव अप्येवन्त्वित्यादिना फलपुष्पयोः परस्परव्यभिचारं दर्शयात पुष्पफलदृष्टान्तेन रिष्टमरणयोः दुर्बोधत्वात् । ननु पुष्पफलव्यभिचारमपि शिष्यो गृह्णीयादिति तन्निरासार्थमाह-अप्येवमित्यादि । फलेनाननुबन्धीति यथा वेतसपुष्पम्। यस्य पुष्पं न पूर्वजमपि शाखादेव फलम् । जातस्येति सम्पूर्ण स्य। किञ्चिदुदिते ह्यरिष्टे ऽसम्पूण नावश्यं मृत्युः। अन्ये तु जातस्य
For Private and Personal Use Only