________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
इन्द्रियस्थानम् । मिथ्या दृष्टमरिष्टाभमनरिष्टमजानता।
अरिष्टं वाप्यसम्बुद्धमेतत् प्रज्ञापराधजम् ॥३॥ जातस्यारिष्टस्य फलादृते न पुष्पनाशवन्नाशोऽस्ति । मरणश्चापि न चारिष्टं विना वर्तते। अत एव यत्रारिष्टं पुरःसरं पूर्व सरति तत्र मरणमस्ति, यद्यत्र रसायनतपोजप्यतत्परत्वं मरणहरमनब्राह्मणश्च न प्रयुङ्क्ते तदा “धुवन्खरिष्टे मरणं ब्राह्मणैस्तत् किलामलैः। रसायनतपोजप्य-तत्परैर्वा निवार्यते ॥” इति सुश्रुतवचनात् ॥२॥ ___ गङ्गाधरः-नन्वरिष्टवतोऽपि जीवनं दृश्यतेऽजातारिष्टस्यापि मरणं दृश्यते इति चेन्नत्याह-मिथ्येत्यादि। अनरिष्टमजातारिष्टं पुरुषस्य यदजानता वैदेवनारिष्टाभं दृष्टं तन्मिथ्या, न रिष्टम् । जातश्च यदरिष्टम् अजानता वैदेन असम्बुद्धं न सम्यक् शातं तदपि मिथ्या, अनरिष्टम् । ननु कथमेवं भवति ? मिथ्यारूपम् एतज्ज्ञानं प्रज्ञापराधजं वैद्यानां प्रापराधात् नियतस्येति वर्णयन्ति । द्विविधं हि रिष्टं नियतञ्चानियतञ्च। तत्र नियतम्, “मृतमेव तमानेयो ग्याचचक्षे पुनर्वसुः" इत्यादि। अनियतम् . यथा-"संशयप्राप्तमात्रे यो मन्यते तस्य जीवितम् । अरोगः संशयं गत्वा कश्चिदेव प्रमुच्यते" इति । तथाऽनियतारिष्ठाभिप्रायेणैव सुश्रुतेऽप्युक्तम्'ध्रुवन्त्वरिष्टे मरणं ब्राह्मणैस्तत् किलामलैः । रसायनतपोजप्य-तत्परैर्वा निवाय्यते ॥” एतच्चान्ये न मन्यन्ते। आचार्येण रिष्टमरणयोरव्यभिचारस्य महता प्रयत्नेन दर्शितत्वात्। “संशयप्राप्तम्" इति वचनं मरणप्रतिपादकमेवाचार्येण भङ्गयन्तरेणोक्तम्, यथाचार्यस्यारिष्टार्थस्तथा तटग्रन्थ एव व्याख्यास्यामः। यत् तु रसायनादिसाध्यत्वं रिष्टस्य तदनुमतमेव। रसायनमहेश्वरप्रसादादयो हि सर्चलोकमर्यादामपि हन्तु क्षमाः। तेन तव्यभिचारमपेक्ष्येह ग्रन्थः क्रियते। महेश्वरो हि भस्मीभूतं कामं पुनर्जीवयति स्म। तपसा च रामेण मृतोऽपि विश्वपुत्रः पुनर्जीवित इत्याद्यनुसरणीयम् । अन्ये तु कालमृत्यावेव रिष्टपूर्वकं मरणं भवतीति वर्णयन्ति, वदन्ति च-“यद्यकालमृत्यौ रिष्टं भवति तदा वर्णाध मृत्युप्रदं रिष्टं तत् विफलं स्यात्, येन कालमृत्युरुचिताचरणेऽपि परं मृत्युर्भवति, तत्र रिष्टे जाते यद्यचिता क्रिया क्रियते तदा मृत्युभवितु. मर्हति, तेन कालगतमेव रिष्टम्" इति। तच्च न, अविशेषेण कालाकालमरणे रिष्टसद्भावनियमात् । अकालमृत्यौ च कालमृत्यौ च यदैव क्रियापथमतिक्रान्तोऽपचारजनितो व्याधिर्भवति, तदैव परं रिष्टं भवति । अत एवोक्तम्-"क्षणेनैव रिष्टाः प्रादुर्भवन्ति" इति। यश्चैनं न स्वीकरोति, तस्य नियतायुयोऽपचारजन्यव्याधेरसाध्यता कदापि न स्यात् । येन यथाऽपचारजा दोषा अतिशयप्रमादादसाध्यव्याधिजनका भवान्त, तथा मरणपूर्वरिष्ठजनका अपि भवन्ति ॥ २॥
चक्रपाणिः --यत्र कुत्रचित् रिष्टमरणम्यभिचारिलिङ्गज्ञानं भवति, तद् भ्रान्तमिति दर्शयन्नाहमिथ्येत्यादि। अरिष्टाभमिति अरिष्टसदृशम् । मिथ्यादृष्टमिति रिष्टत्वेन ज्ञातम्, एतदेवारिष्टे
For Private and Personal Use Only