SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः इन्द्रियस्थानम् । २१५५ हर्षरौक्ष्यस्नेहा व्याख्याताः, तथा पिप्लवव्यङ्गतिलकालकपिड़कानामन्यतमस्यानने जन्मातुरस्यैवमेवाप्रशस्तं विद्यात् ॥६ नखनयनवदनमूत्रपुरीषहस्तपादौष्ठादिषु च वैकारिकोक्तानां वर्णानामन्यतमस्य प्रादुर्भावो हीनबलवणेन्द्रियेषु लक्षणमायुषः क्षयस्य भवति । यदन्यदपि किञ्चिद्वर्णवैकृतमभूतपूर्व सहसैव वर्णभेदेनेत्यादि। यथा वणऽरिष्टमुक्तम्, तथार्द्धशरीरे ग्लानिरर्द्धशरीरे हर्षः यदि द्वावपि सव्यदक्षिणविभागेन वा पूर्वपश्चिमविभागेन वाप्यधरोत्तरविभागेन वाप्यन्तर्वहिविभागेन वा मर्यादाविभक्तौ दृष्ट्वातु रस्यारिष्टं विद्यात्। एवमस्य ग्लानिहर्षभेदो मुखस्यान्तर्गतो वर्तमानो मरणाय भवति। एवं यद्यर्द्धशरीरे रौक्ष्यमर्द्धशरीरे स्नेहो द्वावपि सव्यदक्षिणविभागेन वा पूर्वपश्चिमविभागेन वाप्यवरोत्तरविभागेन वान्तर्वहि विभागेन वा मर्यादाविभक्तो पश्येत् तदातुरस्य अरिष्टं विद्यात्, न तु स्वस्थस्य । एवमस्यातुरस्य वर्णभेदो यदि मुखस्यान्तर्गतो वत्तमानो भवति तदा मरणाय भवति। इति यथा वर्णों द्वौ सव्यदक्षिणभेदन पूर्वपश्चिमभेदेन वा अधरोत्तरभेदेन वा अन्तर्वहिर्भेदेन वा व्याख्यातौ, तथा ग्लानिहषों द्वौ रौक्ष्यस्नेहो द्वौ चेति, वर्णभेदेन ग्लान्यादयो व्याख्याता बोध्याः। तथा पिप्लवो न्यच्छः कुष्णः व्यङ्गः तिलकालकादीनामन्यतमस्य यद्यातुरस्यानने जन्म स्यात्, तदा एवमेवारिष्टरूपमप्रशस्तं विद्यात् ॥६॥ गङ्गाधरः-नखनयनादिषु वैकारिकोक्तानां नीलश्यामताम्रहारितशुक्लानामन्यतमस्य वर्णस्य प्रादुर्भावो जन्म हीनबलादिके व्याधिते पुरुषे आयुषः क्षयस्य लक्षणं, न खक्षीणबलवणेन्द्रिये वा स्वस्थे। यदन्यदपीति । अभूतपूर्वजन्मप्रभृति स्वास्थ्यदशायां यन्न वर्णस्वरूपं तदेव वर्णवैकृतं यदुक्तादन्यत् मुखपृष्ठभागेनेत्यर्थः। अन्तर्विभागेनेति अत्रान्तर्गतो वर्णो मुखनासाकर्णश्रोत्रान्तर्गततया उन्नेयः । अन्यत्रेति अवान्तरे हस्तपादादौ । वर्णभेदेनेति यथा वर्णविभागेन रिष्टम्, तथापि ग्लान्यादिविभागेनेत्यपीत्यर्थः । हर्ष इह उपचयो ज्ञेयः, मानसहर्षस्येह चाक्षुपाधिकारेऽसङ्गतत्वात् । तथेत्यादौ पिप्लुप्रभृतीनामपि वर्णवत् सव्यदक्षिणादिविभागेन जन्म रिष्टं भवति। एतदेव 'जन्म'. शब्देनोच्यते ॥ ६ ॥ __चक्रपाणिः-नखेत्यादी बलहान्यायभावे सति न रिष्टम् । यच्चेत्यादिना अनुक्तवर्णरिष्टं गृह्णाति। अमूतपूर्वमिति पूर्वव्याकृतरसायनविहितवर्णप्रादुर्भावव्युदासार्थम्। सहसो * यच्चान्यत इति चक्रष्टतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy