________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५४
चरक-संहिता। बर्णस्यरीयमिन्द्रियम तत्र प्रकृतिवर्णोऽर्द्धशरोरे विकृतिवर्णोऽर्द्धशरीरे, द्वावपि वर्णी मर्यादाविभक्तौ दृष्टा ययंवं सव्यदक्षिणविभागेन, यद्यवं पूर्वपश्चिमविभागेन, यद्य वमधरोत्तरविभागेन, यद्य वमन्तर्वहिविभागेन आतुरस्यारिष्टमिति विद्यात् । एवमस्य वर्णभेदो मुखस्यान्तर्गतो वर्तमानो मरणाय भवति। वर्णभेदेन ग्लानि
यो वर्णस्तदुत्तरं कैशोरादौ यद्वर्णान्यथात्वं तद्वारितम् । न ते शरीरस्य वैकारिका वर्णा भवन्ति ॥५॥ __ गङ्गाधरः-तत्र कस्मिन् वर्णऽरिष्यमित्यत आह-तत्रेत्यादि। प्रकृतिवण इति साहजिको वर्णः । अर्द्धशरीरे इति नृसिंहाकारेण वार्द्धनारीश्वराकारेण वा तदाह-द्वावपीत्यादि। द्वौ प्रकृतिवर्ण विकृतिवणौ मर्यादाविभक्तो सीमया विभागीकृतौ दृष्ट्वा सव्यदक्षिणविभागेन सव्ये वामे प्रकृतिवर्णो दक्षिणे विकृतिवर्णः, दक्षिणे प्रकृतिवर्णः, वामे विकृतिवर्णो वेत्यवंरूपेण यदि मर्यादाविभक्तो, यदि वा पूर्वपश्चिम विभागेन पुरोदेहे प्रकृतिवर्णः पृष्ठतो विकृतिवर्णोऽथवा पृष्ठतः प्रकृतिवर्णः पुरस्ताद्विकृतिवण इत्येवंरूपेण मर्यादाविभक्तो, यदि वाऽधरोत्तरभागेण ऊद्धि कार्य प्रकृतिवर्णोऽधोऽर्द्धकाये विकृतिवोऽथवा अधोऽर्द्धर्दहे प्रकृतिवर्ण उद्धिदेहे विकृतिवर्ण इत्येवंरूपेण मर्यादाविभक्तो, यदि वान्तर्वहि विभागेन देहाभ्यन्तरे प्रकृतिवर्णी वहिदहे विकृतिवर्णोऽथवा वहिदहे प्रकृतिवर्णो देहाभ्यन्तरे विकृतिवण एवंरूपेण मर्यादाविभक्तो द्वावपि वो दृष्ट्वातुरस्यारिष्टमिति विद्यान्न तु स्वस्थस्य । एवमस्यातुरस्य न तु स्वस्थस्य एवंप्रकारेण वर्णभेदो यदि मुखस्यान्तर्गतोऽर्दै प्रकृतिवर्णोऽद्ध विकृतिवर्णों वर्तमानः स्यात् तदा मरणाय भवति, अरिष्टं भवति। न तु नियतमरणख्यापकतो भिन्नमरिष्टं भवतीत्युक्तम् । तुल्यप्रकारवाद ग्लान्यादीनप्याह---
भवन् रिष्टं स्यादित्याह--अमूत्वोत्पन्नानिति । तेन नायं दोषः। अत्र हि पूर्वभूत एवं वर्णः पुनर्भवति । तेन न रिष्टम् ॥ ५॥
चक्रपाणिः--मर्यादाविभक्ताविति समसीमान्नरस्थापितो। पूर्वपश्चिमविभागेनेति अभि
• अन्तविभागेनेति चक्रः।
For Private and Personal Use Only