________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1म अध्यायः
इन्द्रियस्थानम्।
२१५३ - तत्रादित एव वर्णाधिकारः। तद् यथा-कृष्णश्यामः श्यामावदातोऽवदातश्चेति प्रतिवर्णाः शरीरस्य भवन्ति । यांश्चापरान् अवेक्ष्यमाणानपि विद्यादनूकतोऽन्यथा वापि निर्दिश्यमानांस्तज्ज्ञः। नीलश्यामताम्रहारितशुक्लाश्च वर्णाः शरीरे वैकारिका भवन्ति। यांश्चापरानवेक्ष्यमाणानपि विद्यात् प्राग्विकृतानदूरोत्पन्नान् ।। इति प्रकृतिविकृतिवर्णा भवन्ति इत्युक्ताः शरीरस्य ॥५॥
गङ्गाधरः--उद्देशानुक्रमेण व्याख्यातुमाह-तत्रेत्यादि। कृष्णः स्निग्धकृष्णः पक्कनम्बफलवत् तदयुक्तः श्याम ईषत्कृष्ण इत्यर्थः। श्यामावदात ईषच्छयामः उज्ज्वलश्याम इति यावत् । अवदातो गौर इति च त्रयो वर्णाः प्रकृतिवर्णाः। तार्णभेदनामर्श यांश्च अपरान् अनुकतो वस्वन्तरसादृश्येन निर्दिश्यमानान् अन्यथा वस्वन्तरानकव्यतिरेकेण वा निर्दिश्यमानान् अवेक्ष्यमाणान् तानपि प्रकृतिवर्णान् विद्यात्, तेऽपि प्रकृतिवर्णा भवन्ति । नीलश्याम इति नीलवत् श्यामवर्णः। ताम्रवर्णः। हारितशुक्ल इति पालाशवदगौरः। एते त्रयो वर्णा विकृतिवर्णाः। यांश्चापरान् माग्विकृतान् पूर्ववर्णान्यवर्णान् अदूरोत्पन्नान, न तु दूरोत्पन्नान् विद्यात् । तेन जन्ममात्रं
चक्रपाणिः-प्रकृतिज्ञानान्तरीयक वाद विकृतिज्ञानस्य प्रकृतिवर्णानेव तावदाह-कृष्ण इत्यादि। अवदातो गौरः। इह च प्रायेण ये वर्णाः प्रकृत्या भवन्ति, ते प्रकृतिवर्णा उच्यन्ते, ये तु प्रायेण विकृत्या भवन्ति, ते विकृतिवर्णा उच्यन्ते इति ज्ञेयम्। तेन प्रकृतिवर्णा अपि कदाचिढ़ विकृतिवर्णा भवन्ति, तथा विकृतिवर्णा अपि जन्मप्रभृति जायमानतया कदाचिदपि प्रकृतिवर्णा भवन्तीति ज्ञेयम्। अनुक्तप्रकृतिवर्णातिदेशार्थमाह-यांश्चेत्यादि। उपेत्य ईक्षमाण इत्युपेक्षमाणः । अनूकत इति सादृश्यतः। अनेन च 'कृष्णश्यामादिवर्ण'शब्देन निहिश्यमानान् विद्यादिति योजना । नीलेत्यादिना विकृतिजायमानतया विकृतिवर्णानाह । इह 'अपरान्' इति वचनेन विकृतिवर्णसङ्करजा वर्णा ज्ञेयाः। विकृतिवर्णान्तरमाह-प्रागित्यादि। प्रागविकृतानिति पूर्ववर्णादन्यथाभूतानित्यर्थः। तेनापि येन श्यामेन सता रसायनयोगाद् गौरवर्णत्वं प्राप्तम्, सच त्यक्तरसायनः कालवशात् पुनः श्यामवर्णो भवति, तस्यापि पूर्वगौरवर्णाद् विकृतिः श्यामवर्णो
* अवेक्ष्यमाणानित्यत्र उपेक्षमाण इति चक्रवृतः पाठः । । प्रागविकृतानमूत्वोत्पन्नानिति चक्रसम्मतः पाठः ।
२७०
For Private and Personal Use Only