SearchBrowseAboutContactDonate
Page Preview
Page 991
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५२ चरक-संहिता। वर्णस्वरीयमिन्द्रियः प्रतलिङ्गानुरूपाम्, यामायुषोऽन्तर्गतस्य ज्ञानार्थमुपदिशनिधीराः। याञ्चाधिकृत्य पुरुषसंश्रयाणि मुमूर्षतां लक्षणान्युप. देच्यन्ते। इत्युद्देशः। तं विस्तरेणोपदिशन्तो भूयः परमतो व्याख्यास्यामः ॥ ४॥ अपराश्चाह-भूयश्चेत्यादि। या विकृतिमन्तगतस्य लक्षणलक्ष्याभ्यामविशेयस्यायुषो ज्ञानार्थमायुषः क्षयनिमित्तामायुषः कर्मवशात् क्षय एव निमित्तं यस्यास्ताञ्च भूयो भूयिष्ठं प्रेतलिङ्गरूपां मृतस्यानुमानकरणरूपां धीरा उपदिशन्ति। एवं परीक्षाहेतूनुक्त्वास्मिन स्थाने यद् यल्लक्षणं वाच्यं तदाहयाञ्चेत्यादि। याश्च विकृतिमधिकृत्यात ऊद्ध पुरुषसंश्रयाणि मुम्रर्ष ताम् आसन्नमृत्यूनां पुंसां लक्षणान्युपदेक्ष्यन्ते सा विकृतिनिमित्तानुरूपा। एतेनास्मिन स्थाने लक्षणनिमित्ता लक्ष्य निमित्ता च विकृतिः पुरुषसंश्रयाणां वर्णादीनां परीक्षार्थ न दर्शयितव्या निमित्तानुरूपैव विकृतिदर्शयितव्या, तया पुरुषसंश्रयाणि मृत्युलक्षणानि परीक्षेतेत्यर्थः । इत्युद्देशः संक्षेपेणात्र प्रमाणविशेषशानार्थ परीक्षासूत्रोपदेश एषः। तस्यायुषः प्रमाणज्ञानार्थपरीक्षामूत्रोद्देशं भूयोऽतः परम् ऊर्द्ध व्याख्यास्यामः। इति प्रतिज्ञा ॥४॥ इति अत्यर्थम् । तेनात्यर्थमायुःक्षयनिमित्तां प्रत्यासन्नायुःक्षयजन्यामिति यावत् । यामिति क्षीणायुःकार्याम् । प्रेतलिङ्गानुरूपामिति प्रेतसदृशीम्, “मला दन्तेषु जायन्ते प्रेताकृतिरुदीर्यते" इत्यादिग्रन्थवक्ष्यमाणाम् । इमां हि विकृतिमायुषोऽन्तर्गतस्य ज्ञानार्थं वदन्ति । या त्वन्या प्रेतलिङ्गानुरूपा वर्णाश्रया सा नात्यर्थ प्रत्यासन्नमरणबोधिका। तेन सा नात्यर्थक्षीणायुःकार्येत्यर्थः । एवं भूयश्च' इत्यादिना 'धीराः' इत्यन्तेन निमित्तानुरूपविकृतिविशेषस्य कार्यविशेष मरणलक्षणमभिधाय पुनः सामान्येनानिमित्ततया धर्मान्तरमाह-यामधिकृत्येत्यादि। 'पुरुषसंश्रयाणि' इति विशेषणेन पुरुषानाश्रितदूतादिरिष्टे नावश्यमनिमित्ततास्तीति दर्शयति । यतो दूताधिकारादी यानि रिष्टानि, तानि दृश्यमाननिमित्तान्याप्यागमादेव रिष्टत्वेनावधार्यन्ते, यथा"मुक्तकेशेऽथवा नग्ने रुदत्यप्रत्ययेऽथवा। भिपगभ्यागतं दृष्ट्वा दृतं मरणमादिशेत् ।” अत्र भिषजा मुक्तकेशवचनाद् दृश्यत एव कारणम्, तथा दूतागमने चातुरस्य प्रेरणादिकारणमस्त्येव । तेनानिमित्तञ्च आतुराश्रयि रिष्टमेव । अन्ये तु एवंभूतवैद्यदूतसमागमः परिहर्त्तव्यत्वेन ज्ञातः सन् यदा देवाद् भवति, तदा देवनिमित्तः सन् रिष्टं भवति । तेन सर्वरिष्टव्यापिकैवेयमनिमित्तता। भूयश्च' इत्यादिग्रन्थेन तु प्रेतलिङ्गानुरूपां विकृति मूय आयुषोऽन्तर्गतस्य ज्ञानार्थमुपदिशन्ति इति च तथा पुरुषसंश्रयान् भूय उपदेक्ष्यन्ते, पुरुषानाश्रयाणि तु स्वल्पग्रन्थेनोपदेश्यन्ते इति व्याख्यानयन्ति । इत्युद्देश इति इन्द्रियस्थानार्थो ज्ञेय इत्यर्थः ॥ ४ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy