________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
चरकाता
२१५६
चरक-संहिता। वर्णस्वरीयमिन्द्रियम् उत्पद्यतऽनिमित्तमेव हीयमानस्यातुरस्य छ तच्चारिष्टमिति विद्यात् । इति वर्णाधिकारः॥७॥
स्वराधिकारस्तु-हंसक्रौञ्चनेमिदुन्दुभिकलविङ्ककाककपोतझर्भगनूकाः प्रकृतिस्वरा भवन्ति। यांश्चापरानवेक्ष्यमाणान् विद्यादनकतोऽन्यथा वापि निर्दिश्यमानांस्तजज्ञ। शुक-कलग्रहग्रस्ताव्यक्त गद्गद-क्षाम-दीनानुकीर्णाश्चातुराणां स्वरा वैकारिका भवन्ति । यांश्चापरानवेक्ष्यमाणानपि विद्यात् प्राग्विकृताद अदूरोत्पन्नान् । इति प्रकृतिविकृतिस्वरा व्याख्याता भवन्ति । तत्र प्रकृतिवैकारिकाणामाश्वभिनिर्वृत्तिः स्वराणामेकत्वमेकरय सहसैवानिमित्तमेव देहे उत्पद्यते, तत् तु हीयमानस्य बलादिभ्य आतुरस्यारिष्टं विद्यादिति ॥७॥
गङ्गाधरः इति वर्णारिष्टमुक्त्वा उद्देशानुरूपखात् स्वरारिष्टाधिकारः। हंसेत्यादि । नेमी रथचक्रम् । कलविङ्कः पक्षिविशेषः । झझरः वाद्यभेदः । एषामनूकाः सदृशाः प्रकृतिस्वरा भवन्ति यांचापरान् स्वराननूकतोऽन्यथा वा तज्ज्ञ स्वरविद्भिरवेक्ष्यमाणान् दृश्यमानानपि निदिश्यमानान स्वरान विद्यात्, तेऽपि प्रकृतिस्वराः। शुकः पक्षिविशेषः। कलः सूक्ष्मः। ग्रहग्रस्तः सर्वथानुचरणम्। अव्यक्तः। गदगदोऽद्धोच्चरितः। क्षामः क्षीणः । दीनो दुःखोचार्यमाणः स्वरः । अनुकीर्ण उपर्यु पर्युच्चार्यमाणः। एते स्वरा आतुराणां वैकारिका भवन्ति । यांश्चापरान् स्वरज्ञ रवेक्ष्यमाणानपि विद्यात् वैकारिकान् स्वरान् प्राग विकृतात् पूर्वस्वरतोऽन्यथारूपात् अदूरोत्पन्नानरूपकालोत्पन्नान स्वरान् विद्यात्, तेऽपि वैकारिकाः स्वरा भवन्ति। अथ स्वरारिष्टखमाहतत्रेत्यादि। तत्र प्रकृतिविकृतिस्वरेषु मध्ये प्रकृतिस्वराणामुपघातेन वैकारिकत्पद्यत इत्यनेन रिष्टानां शीघ्रस्वभावं दर्शयति । अनिमित्तमिति पूर्वोक्तार्थमेव । हीयमानस्य शश्वदिति स्वभावकथनम्, रिष्टोत्पत्या हीयमानता शश्वदवश्यं भवति ॥ ७॥
चक्रपाणि:-क्रमागतं स्वरमाह-स्वरेत्यादि। अझरो वाद्यभाण्डविशेषः। यांश्चेत्यादि पूर्ववत्। एडको मेषः किंवा अनडान्। कलः सूक्ष्मः। ग्रस्तः सर्वथानुच्चारः। लामो रुक्षः। दीनो दुःखोचार माणस्वरः। अनुकीर्णः उपर्युपर्युच्चार्यमाणः। प्रकृतेर्वैकारिका
* इतः परं शश्वदित्यधिकः क्वचित ।
+एड़क इति चक्रः।
For Private and Personal Use Only