________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७६ चरक-संहिता।
रक्तपित्तनिदानम भवेद योगावहं तत्र कषायं तिक्तमेव च * । तस्मात् साध्यतमं रक्तं यदूद्ध प्रतिपद्यते ॥८॥ रक्तन्तु यदधोभागं तद् याप्यमिति निश्चयः । वमनस्याल्पयोगित्वादल्पत्वाद भेषजस्य च ॥ वमनं हि न पित्तस्य जयार्थे परमौषधम् ।
यश्च तत्रानुगो वायुस्तच्छान्तौ चावरं स्मृतम् ॥ कफस्य चौषधं विरेचनं नाधमं न चाश्रेष्ठतमम् अपि तु श्रेष्ठं अनधममिति करणात् । साध्यखे हेखन्तरमुक्तं बहु खाद भेषजस्य चेति तद्विणोति-भवेदित्यादि। कषायं तिक्तमेव चेति कपायरसद्रव्यं तिक्तरसद्रव्यञ्चैव न तु मधुरमिति, मधुरमात्रद्रव्यस्य अयोगवहखाद भेषजाधिक्यमधोगापेक्षया, अधोगे हि वक्ष्यते मधुरञ्चैव भेषजमिति न तु तत्र कषायं तिक्तं वा वातवर्द्धकलादिति, अधोगे भेषजाल्पत्वं तत्र व्याख्येयम् । साध्यवं निगमयति- तस्मादित्यादि । तत्र श्लेष्मानुबन्धोद्ध गस्योपदर्शनेन साध्यतममित्युक्तं न तु तत्र वाताधनुबन्धेन। सबौद्ध गाभिप्रायेण पूर्वमुक्तं साध्यं लोहितपित्तं स्यादिति । रक्तन्तु यदधोभागमित्यादिकं पूच्चेवाख्येयम् । वमनस्याल्पयोगिवं विट णोति-वमनं हीत्यादि। ननु वमनं पित्तस्य जयार्थं न परमौषधमस्तु प्रभावात् तत्र दोषान्तरजयार्थ परमौषधं न वा इत्यत आह-यश्चेत्यादि । श्लेष्मा, तस्य जयार्थे अनधममधमं न भवति मध्यममित्यर्थः ; वचनं हि-“पित्तं वा कफपित्त वा पित्ताशयगतं हरेत्। स्रंसनम्" इति । योगावहञ्च तत्रेति, तत्र ऊर्द्धगे रक्तपित्ते तद्विरेचनं योगवाहं भवति प्रतिमार्गहरणरूपत्वादित्यर्थः ; अनेन च व्याधिप्रत्यनीकमुच्यते। एवं व्याधिप्रधानकारणे पित्ते प्रधानशमकत्वात् तथा मध्यकुपिते च कफे मध्यभेषजत्वात् प्रतिमार्गहरणरूपतया च प्रत्यनीकत्वात् विरेचनमूद्धगे साधु भेषजम् । मधुरन्चैव भेषमित्यत्र 'एव'शब्दोऽप्यर्थः ; तेन कषायतिक्ते तावद् भेपजे भवत एव पित्तकफप्रत्यनीकत्वात्। मधुरमपि लङ्घनादिना कफे जिते भेपजं भवतीत्यर्थः ॥ ८॥
चक्रपाणिः-अधोगे वमनस्यानुपयोगितां विवेचयति-- वमनं हीत्यादि। पित्तस्य रक्तपित्तमूलस्य हरणे न श्रेष्ठं वमनम्, वमनं हि कफानुगतं पित्तं हरति, न पित्ते प्राधान्येन क्रियते ; तच्छान्तौ चावरमिति वातहरणे त्वप्रधानमेव वमनम् ; वातहरणेऽयुक्तत्वादेव वमनस्य ;
* मधुरन्चैव भेषजमिति चक्रसम्मतः पाठः ।
For Private and Personal Use Only