________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः
निदानस्थानम् ।
१२७७ स्याच्च योगावहं तत्र मधुरञ्चैव भेषजम् * । तस्माद् याप्यं समाख्यातं यद्रक्तमनुलोमगम् ॥६॥ रक्तपित्तन्तु यन्मार्गों द्वावपि प्रतिपद्यते। असाध्यमिति तज्ज्ञ यं पूर्वोक्तादेव कारणात् ॥ न हि संशोधन किञ्चिदस्यास्ति प्रतिमार्गगम् ।
प्रतिमागञ्च हरणं रक्तपित्ते विधीयते ॥ वमनमवरं स्मृतमित्यर्थः। अल्पौषधत्वं विकृणोति-स्याच्चेत्यादि । मधुरञ्चैव भेषजं न तु कपायं वा तिक्तं वा इत्यल्पभेपनसमृद्ध गापेक्षया बोध्यं । निगमयति -तस्मादित्यादि। अनुलोमगमधोगं याप्यमिति वातानुबन्धोपदर्शनात् तदभिप्रायेण द्विदोषाद्यनुबन्धे तु चिकित्सास्थानोक्त्या चासाध्यत्वं बोध्यम् ।। ८।९॥ गङ्गाधरः-मागौ द्वावपीत्युद्धोधोमार्गयुगलम् । पूर्वोक्तादेव कारणादिति वमनविरेचनायोगितात् अनौपधखाच । ननु वमनविरेचनयोः कथमयोगिवं तयोरयोगिखेन वा किं निरूहादिसंशोधनान्तरमप्यस्ति तेनैव साध्यते, इत्यत आह-न हीत्यादि । प्रतिमार्गगमिति रक्तपित्तस्य मागेविपरीतमागेगम् । यथा ऊद्ध गे विरेचनमधोगे वमनं प्रतिमार्गगं न तथास्थापनं, तद्धायोमार्गहरं नोद्धमागेदोष. मपहरतीत्युभयमागगरक्तपित्ते प्रतिमागेगं न भवति । एवं शिरोविरेचनन्तु न केनापि मार्गेण प्रतिमार्गगमिति। ननु भवतु वा न वा प्रतिमागेगं दोषहरवादास्थापनादिकानां यौगिकवं कथं न स्यादित्यत आह-प्रतिमार्गञ्चेत्यादि । चकाराथोऽवधारणं, तेन तुल्यमार्गहरणं प्रतिषिध्यते। प्रतिमागे तच्चायोगाबहमिति तद वमनं प्रतिमार्गहरणरूपतया योगावहमपि सत् पित्तवातयोरुक्त न न्यायेनायौगिकन्वेनायोगावहमित्यर्थः ; कषायतिक्तकानि च अयोगाबहानीति योजना, कषायतिक्तयोर्वातप्रतिकूलत्वादित्यर्थः ; एवं मधुरमेकमवशिमधोगे रक्तपित्ते भेषजं भवति; तेनाल्पौषधत्वं सिद्धम् ; अम्ललवणकटुकानाञ्च पित्तविरुद्धत्वेन रक्तपित्तेऽप्रसक्तिरिति ॥९॥
चक्रपाणिः-पूर्वोक्तादिति वमनविरेचनायौगिकत्वादनौषधत्वाञ्च ; वमनविरेचनायौगिकत्वं व्युत्पादयति-न हीत्यादि। संशोधनमिति सामान्यवचनेन वस्तिशिरोविरेचनयोरपि प्रतिक्षेपणं सूचयति ; यदधोभागं विरेचनम्, तदधोभागं रक्तपित्तं कोपयति, यदूद भागं वमनम् , तदूद्ध भागं रक्तपित्तं कोपयति ; अतः नास्त्युभयमार्गे रक्तपित्ते शोधनम् । अथानुगुणशोधनं
* कपायं तिक्तकानि च इति चक्रष्टतः पाठः ।
For Private and Personal Use Only