SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। रिक्तपिननिदानम् एवमेवोपशमनं सर्वशो नास्य विद्यते । संसृष्टेषु हि दोषेषु सर्वजिच्छमनं मतम् ॥ इत्युक्तं त्रिविधोदकं रक्त मार्गविशेषतः ॥ १० ॥ हरणस्य तु रक्तपित्ते यौगिकवं रोगस्वभावात् पित्तरक्तयोः स्वभावाच्च, अम्लपित्ते हि तुल्यमार्गहरणं यौगिक दृश्यते । संशोधनस्य दोषाणामा मूलत उन्मूलकरखात् उपक्रमेषु प्राधान्यादुभयगे रक्तपिसे तदयोगिले चिकित्सायां भिषजां दोब्बल्यमित्यसाध्यखे हेतुर्योध्यः । ननु सर्वथा क्रियाभावो नास्ति संशमनेन च चिकित्साकरणसामर्थ्यादित्यत आह-एवमित्यादि। एवमुक्तप्रकारेण उपशमनभेपनमपि सर्वशो नास्यास्ति । अद्ध गे हि मधुर भेषजं न यौगिकम् अधोगे तु कषायं तिक्तकञ्च न योगिक सुतरामुभयगे मधुरकषायतिक्तानि न यौगिकानि भवन्ति, कम्ललवणानि तु पित्तरक्तविरोधित्वान्नौषधानीति सव्वथैवोपशमनौषधाभावः, तस्मादसाध्यमाख्यातं ; यत् द्वौ मागौ प्रतिपद्यते इति वाच्यं निगमनम्। ___ अथ ऊर्द्ध गाधोगयोः कफवातानुबन्धप्रतिनियमेऽपि दोषान्तरसंसर्गे संशमनमाह-संसृष्टेषु इत्यादि । सर्वजिदिति वातपित्तकफरक्तानां चतुर्णामेवावजयकरं भेपजं शमनं मतम् । ऊर्द्धगे हि रक्तश्च पित्तञ्च तदारम्भकमनुबन्धस्तु कफः प्रतिनियतस्तत्र दोषान्तरन्तु वायुरेव परिशिष्टस्तत्सं सगेश्चेत् तदा सर्वदोषसद्भाव इति, सर्वजित् संशमनं विधेयम् एव भवति । एवमधोगेऽपि व्याख्येयम् । दोपान्तरसंसर्गविज्ञानाय लिङ्गानि चिकित्सिते वक्ष्यन्ते, अत्र सूत्ररूपखान्नोक्तानि। इति त्रिविधं मार्गविशेषत उर्द्ध मार्गाधोमार्गोभयमार्गभेदात् उदकं साध्ययाप्यप्रत्याखेायरूपं फलं यस्य तत् रक्तपित्तमुक्तं भवति। ननु मागो पुनरस्य द्वाविति पूर्वमुक्त, कथमत्र त्रिविधोदौक्तिन विरुध्यते ? उच्यते, ऊर्दू श्चाधश्चेति द्वौ मार्गावेव योगपदेव हुभयमिच्छन्ति कफच्छवामिव वमनं रक्तपित्ते भवतीत्याह-प्रतिमार्गम्चेत्यादि। रक्तपित्तव्याधिमहिम्ना प्रतिमार्गहरणमेव भेषजं भवति नान्यदित्यर्थः ; अथ त्रैव सशमनं वा भवतु भेषजम् ? तन्न भवतीत्याह-एवमेवेत्यादि। उभयमार्गानुसारित्वेन वातकफानुबन्धत्वात् यथा यौगिक संशोधनं नास्ति तथोपशमनमपि युगपदवातकफशमकत्वाभावान्नास्तीत्यर्थः ; सर्वशो न विद्यत इति किञ्चिदपि न विद्यत इति। एतदेवोपशमनभेषजाभावं स्फोटयति--संसृष्टेष्विति सन्निपातेषु बोद्धव्यम् । सर्वजिदिति अनुबन्धभूतवातकफमूलभूतपित्तजित् ; मधुरं हि कफकारि, For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy