________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२य अध्यायः ।
निदानस्थानम् ।
एभ्यस्तु खलु हेतुभ्यः किञ्चित् साध्यं न सिध्यति । परभाव दौरात्म्याद वैद्यदोषतः ॥ कर्म्मतश्च साध्यत्वं कश्चिद्रोगोऽतिवर्त्तते । तत्रासाध्यत्वमेकं स्यात् साध्ययाप्यपरिक्रमात् ॥
Acharya Shri Kailassagarsuri Gyanmandir
१२७६
( च शब्दस्यान्वाचयाथत्वात् ) न त्वतिरिक्तमित्यभिप्रायेणोक्तं त्रिविधोदकमिति युगपद्गतस्यासाध्यत्वं फलविशेष एव प्रत्याखेयत्वात् ॥ १० ॥
गङ्गाधरः- ननु साध्यत्वेन यदुक्तं तदपि किं नासाध्यं भवितुमर्हतीत्यत आह — एभ्यस्त्वित्यादि । एभ्य इत्यत ऊद्ध वक्ष्यमाणेभ्य एव मध्योपकरणादिभ्यो हेतुभ्यः । प्रेष्येति आतुरस्य परिचारक उपकरणं धनं वास्ति चेत् तदा तस्य दौरात्म्यलाद् दुब्बु यादिना कुपथ्याचारात् तेषु गुणवत्सु सत्स्वपि वैद्यदोषतः शास्त्रविहितप्रतिकारविपरीतक्रियादिकरणदोषान्। अकर्म्मतश्चेति प्रतिक्रियाकरणाभावात् । कचिद् रोगो रोगविशेषः साध्यत्वमतिवर्त्ततेऽसाध्यत्वमापद्यते । नन्वसाध्यत्वं द्विविधं - याप्पं प्रत्याखेायञ्च । किं तद् द्विविधमित्यत आह तत्रासाध्यवमित्यादि । साध्ययाप्यपरिक्रमात् कस्यचिद याप्यखं कस्यचित् प्रत्याखेयत्वं तस्मात् साध्ययाप्यपरिक्रमादेकमेवासाध्यत्वं स्यात् । तिक्तकषायौ तु वातकरी, शेषास्तु पित्तकरा एवेति भावः ; किंवा, एवमेवेति, विना भेषजं नोपशमनं रक्तपित्तस्य भवतीति योजनीयम् । त्रिविधोदर्कमिति त्रिविधजातीयफलम्, तच्च साध्यत्वयाप्यत्वप्रत्याख्येयत्वरूपम् ॥ १० ॥
For Private and Personal Use Only
1
चक्रपाणिः - असाध्यतोपोद्घातेनेतरव्याधि-साधारण्येऽपि असाध्यतापत्तिकारणान्याह –एभ्यस्तु इत्यादि । उपकरणाभावादिति भेषजाभावात् दौरात्म्यादिति आतुरस्यानात्मवखात् । अकर्म्मत इत्यत्र कुत्सायाम् नज्, अपुत्र इति यथा; तेन अकर्मतोऽसम्यक चिकित्सात इत्यर्थः ; किंवा अकर्म्मत इति अधर्म्मादसाध्यव्याधिजनकात । कश्चिदिति वचनेन अचिकित्सया म सबै तिलकालक्रमश कादयोऽवश्यमसाध्या भवन्तीति दर्शयति तेषामचिकित्सयापि साध्यत्वात् । प्रष्यादिदोषेण प्रकृतरक्त पत्ते असाध्यत्वं दर्शयन्नाह - तत्रेत्यादि । तत्रेति रक्तपित्ते ; असाध्यत्वम् एकमिति असाध्यत्वमेव परं स्यात् साध्ययाप्यपरिक्रमादिति साध्ययाप्यमार्गाभ्यां परिक्रमात् उभय मार्गानुसारित्वादित्यर्थः ; किंवा, साध्ययाप्ययोः परिक्रमः, तस्मात् तत्र साध्यस्य परिक्रमो याप्यमार्गगामित्वम्, एवं याप्यस्य परिक्रमः साध्यमार्गगामित्वम् अयञ्च मार्गपरिक्रमो मार्गपरित्यागादपरित्यागाद वा असाध्य एव, अपरित्यागे तावद्भयमार्गेणैव असाध्यत्वम्; परित्यागेऽसाध्यत्वमुक्तः, वक्ष्यति हि चिकित्सिते - " मार्गानुभा' चरेड यं वा तच्च रक्तमसिद्धिमत्
;