________________
Shri Mahavir Jain Aradhana Kendra
१२८०
www.kobatirth.org
चरक संहिता |
रक्तपित्तस्य विज्ञानमिदं तस्योपदेदयते । यत् कृष्णमथवा नीलं यद्वा शकधनुःप्रभम् । रक्तपित्तमसाध्यं स्याद वाससो रञ्जनञ्च यत् ॥ भृशं प्रत्यतिमात्रञ्च सव्र्वोपद्रववच्च यत् । बलमांसक्षये यच्च तच्च रक्तमसिद्धिमत् ॥ येन चोपहतो रक्तं रक्तपित्तेन मानवः ।
|
पश्येद दृश्यं वियच्चापि तच्चासाध्यं न संशयः ॥ सव्र्वरोगाणां साध्यानामसाध्यत्वमकारमुक्त्वा तेन प्रकारेण रक्तपित्तस्य साध्यस्याप्यसाध्यत्वे तद्विज्ञानार्थं लिङ्गान्याह - रक्तपित्तस्येत्यादि । रक्तपित्तस्य साध्यत्वेनाप्युपदिष्टस्य तस्य प्रयोपकरणाभावादुक्तहेतुभ्योऽसाध्यत्वमापन्नस्प विज्ञानं लिङ्गमिदम् अत ऊर्द्ध मुपदेक्ष्यामः । यदित्यादिना । यदिति रक्तपित्तं कृष्णं भवति तदसाध्यम् । अथवा यह रक्तपित्तं नीलं नीलवर्णं भवति तदसाध्यम् । अथवा यद रक्तपित्तं शक्रधनुःप्रभं लोहितमेकदेशेन दूर्वादलश्याममेकदेशेन तथाविधं तदसाध्यम् । यच रक्तपित्तं वाससो रञ्जनं विमलवसनं येन रक्तेन म्रक्षितं शुष्कञ्च पुनजेलेन धौतं रक्तमेव वर्त्तते तद् रक्तपित्तमसाध्यम् । यच्च रक्तपित्तं भृशमतिशयेन पूति दुर्गन्धि भवति भवति चातिमात्रमतिशयमानेन प्रवृत्तं तदसाध्यम् । यच्च सव्र्वोपद्रववत् उक्तदौर्बल्यारोचकादिसमुदायोपद्रवयुक्तं तदसाध्यमित्यर्थः । येनेत्यादि । येन च रक्तपित्तेनोपहतो मानवो दृश्यं यावद्वस्तु रक्तं पश्येत् वियच्चापि रक्तं पश्येत् तच्च रक्तपित्तम् इति; किंवा असाध्यत्वमेकं साध्ययाप्यपरिक्रमादिति साध्यस्य याप्यत्वेन परिक्रमादित्यर्थः । स्यापि रक्तपित्तस्य लाक्षणिकीमसाध्यतामाह - रक्तपित्तस्येत्यादि । एते कृष्णायो वर्णाः गम्भीरधातुसम्बन्धाद्भवन्ति ततश्वासाध्यं युक्तमेव वाससो रञ्जनञ्च यदिति प्रक्षालितमपि सद्वासो रञ्जयति, न क्षालनेनापैतीति बोद्धव्यम् : अन्यथा 'सर्व्वमेव रक्तं वासो रञ्जनं भवति इति वचनमनर्थकं स्यात् किंवा 'अरञ्जनम्' इति पाठः तेन रक्तस्य वासस रञ्जकस्यारञ्जनमेव विकृतिः । भृशं पूतीति धात्वन्तरसम्बन्धादतिदुर्गन्धि; सर्वोपद्रवदिति
S
S
;
दौर्बल्यापद्रवयुक्तम् ।
इथं घटपटादि वियदाकाशम् रक्त ;
1
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
रक्तवर्णमित्यर्थः यद्यत्याकाशमपि पं
2
[ रक्तपित्तनिदानम्