________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्य अध्यायः
निदानस्थानम् ।
१२८१ तत्रासाध्यं परित्यज्य याप्यं यत्नेन यापयेत्। साध्यञ्चावहितः सिद्धर्भेषजैः साधयेद्भिषक ॥ ११ ॥
. तत्र श्लोको। कारणं नामनिव्वृत्तिं पूव्वरूपाण्युपद्रवान् । मागों दोषानुबन्धश्च साध्यत्वं न च हेतुमत् ॥ निदाने रक्तपित्तस्य व्याजहार पुनर्वसुः। वीतमोहरजोदोष-लोभमानमदस्पृहः ॥ १२॥ इत्यग्निवेशकृते तन्त्र चरक-प्रतिसंस्कृते निदानस्थाने
रक्तपित्तनिदानं नाम द्वितीयोऽध्यायः ॥२॥ असाध्यम्। ननु असाध्यादिषु किं प्रतिकाय्येमित्यत आह-तत्रेत्यादि । तत्र रक्तपित्तेषु यदसाध्यं रक्तपित्तं तत् परित्यज्य भिषग् यत्नेन याप्यं रक्तपित्तं पथ्यादिना यापयेदवहितः सन् भिषक् साध्यं रक्तपित्तं सिद्धभषजैः साधयेदिति ॥११॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोकावित्यादि। यवकोदालकेत्यादिना कारणम् । ततस्तु तस्मिन् प्रमाणातिवृत्ते इत्यादिना नामनिर्दृत्तिं लोहितपित्तेति संशाकरणाथें नितिं सम्प्राप्तिम्। तस्येमानीत्यादिना पूर्वरूपाणि। उपद्रवस्वित्यादिना उपद्रवान् । मागौ पुनरित्यादिना मागौ । तदबहुश्लेष्मेत्यादिना दोषानुबन्धम् । तत्र यदूद्ध मित्यादिना साध्यवं हेतुमत्साध्यवे हेतुसहितं साध्यखवचनं न हेतुमच्च न साध्यवं याप्यासाध्ययोः सहेतूपदेशवचनं चकारादुपक्रमप्रयत्नाय भोजनादिकश्च ॥ १२ ॥ अध्यायं समापयति-अग्नीत्यादि ॥ इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ द्वितीयस्कन्चे निदानस्थानीयरक्तपित्तनिदानाख्य
द्वितीयाध्यायजल्पाख्या द्वितीयशाखा ॥२॥ भवति मीमांस कनये, तथापि प्राय आकाश एवासाध्यरक्तपित्तरक्तत्वं प्रतीयत इति न पुनः रुक्तम् । यत्नेनेतिवचनाद् याप्ययापनं यत्नं विना न भवतीति दर्शयति ॥ ११॥
चक्रपाणिः-कारणमित्यादि संग्रहः ; नामनिर्वृत्तिमिति 'लोहितसंसर्गाद' इत्यादिना ; 'न च' इति न चासाध्यत्वम्, अनेन च याप्यमपि गृहीतम् ; असाध्यभेदो हि याप्यम् ; हेतुमदिति विरेचने यौगिकत्वायौगिकत्वादिहेतुवर्णनं संगृह्णाति ; वीता अपगता मोहादयो यस्य स तथा ॥ १२ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्त-विरचितायाम् आयुर्वेददीपिकायां निदानस्थानस्य
व्याख्यायां रक्तपित्तनिदानं नाम द्वितीयोऽध्यायः ॥२॥
For Private and Personal Use Only