________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयोऽध्यायः। अथातो गुल्मनिदानं व्याख्यास्यामः, इतिह
स्माह भगवानात्रेयः ॥ १॥ इह खलु पञ्च गुल्मा भवन्ति, तद् यथा- वातगुल्मः पित्तगुल्मः श्लेष्मगुल्मः निचयगुल्मः शोणितगुल्मश्चेति ॥२॥
गङ्गाधरः-अथातिकर्षकज्वरप्रभवत्वेन समाननिदानवाद रक्तपित्तगुल्मयोरेककार्यवसङ्गत्या, तथा सर्वत्र रक्तपित्ते पित्तस्याव्यभिचरितहेतुखादेकदोपस्याव्यभिचारिहेतुखप्रसङ्गसङ्गत्या च सर्वगुल्मे वातस्याव्यभिचारिप्रकृतिभूतहेतुखाच्च रक्तपित्तनिदानानन्तरं गुल्मनिदानव्याखबानमारभते । अथात इत्यादि। गुल्मस्थ निदानं निदानादि पञ्चनिदानम् ॥१॥
गङ्गाधरः-इहेत्यादि। इह संसारे जन्तूनां पञ्च गुल्मा भवन्तीति यदुक्तमष्टोदरीये तस्यानुवादोऽयं स्मरणार्थम् । निचयगुल्म इति सन्निपातजगुल्म इत्यर्थः। शोणितगुल्मश्चेति । पदार्थाखातन्त्रयुक्त्यात ऊर्द्ध स्त्रीणामार्त्तवजगुल्मन्याखानदर्शनादत्र शोणितपदेनात्तवमुच्यते, यत् तु-स्त्रीणामार्त्तवजो गुल्मो न पुंसामुपजायते। अन्यस्वमृगभवो गुल्मः स्त्रीणां पुसाश्च जायते । इति वचनात् शोणितशब्देन प्रसादरक्तमार्त्तवरक्तञ्चोच्यते तन्न, चरकसुश्रुतादो प्रसादरक्तजगुल्मादशनेन तद्वचनस्यामूलकखात् ॥२॥
चक्रपाणिः-दक्षाध्वरोद्ध्वंसे रक्तपित्तमनु गुल्मोत्पत्तिरिति रत्त, पित्तमनु गुल्गनिदानम् । इह पन्चेतिवचनात् चिकित्सितेऽधिकान् गुल्मान् सूचयति, वक्ष्यति हि-यामिश्रलिझानपरांस्तु गुल्मास्त्रीनादिशेदौषधकल्पनार्थम्' इति । निचयः सन्निपातः ; तत्कृतगुल्मो निचयगुल्मः ; इह प्रत्येकवातादिगुल्मक्रियामेलकादेव द्वन्द्वजगुल्माः साध्यन्त इति कृत्वा न पृथगुक्ताः । सनिपातगुल्मास्तु वातादिगुल्मक्रियामेलकेन साध्या भवन्त्येव ; तेन वातादिसंयोगमहिम्ना अतिरिक्तासाध्यत्वयोगाग्निचयगुल्मः पृथगुक्तः, एतदेव गुल्मेऽस्मिन्नसाध्यत्वं प्रतिपादयितु सन्निपातमन्दं साध्यवरादिसन्निपातेऽपि वर्तमान परित्यज्य निचयशब्दः ; अत्यर्थः हि असाध्यपाश्चायं निचयः ॥ ॥२॥
For Private and Personal Use Only