________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम् ।
१२८३ एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच, कथमिह भगवन् पञ्चानां गुल्मानां विशेषमभिजानीमहे ? न ह्यविशेषविद रोगाणामौषधविदपि भिषक प्रशमसमर्थो भवतीति । तमुवाच भगवानात्रयः। समुत्थानपूर्वरूपलिङ्गवेदनोपशयविशेषेभ्यो विशेषविज्ञानं गुल्मानां भवति, अन्येषाञ्च रोगाणामग्निवेश। तत्र तावद् गुल्मेषच्यमानं निबोध ॥३॥
गङ्गाधरः--एवमित्यादि स्पष्टम् । विशेष मिति वातजलादिरूपेण ज्ञातत्वं विना पञ्चवविज्ञानं न भवतीति वातजवादिना ज्ञान सिद्धौ तद्विशेषज्ञानसिद्धेः साध्यखादिविशेषं कथमभिजानीमहे इति नार्थः । पञ्चानां गुल्मानामिति वचनन्तु पञ्च गुल्मा भवन्तीत्युक्तानुवादे कृतं न तु वातजखादिरूपेण शातत्वेनोक्तवातगुल्मवादिविशेषमित्यर्थः। अविशेषविदिति गुल्मवरूपेणैव यो भिषक् गुल्मवेत्ता न तु वातजखादिविशेषरूपेण गुल्मवेत्ता स वातजादिगुल्मप्रशमौषधविदपि वातजादिविशेषगुल्मानां प्रशमनसमर्थो न भवतीति । समुत्थानेत्यादि। वेदनोपशयेति वेदनाया यातनाया उपशय इत्यर्थः । अन्येषाश्च रोगाणामिति ज्वररक्तपित्तादीनाम्। ननु तस्योपलब्धिनिदानपूर्वरूपेत्यादिना रोगाणां विशेष विज्ञानमुक्तमत्र च पुनस्तदुक्तम् इति पौनरुक्त्यमिति चेन्न, तत्रोपलब्धिरित्युक्तं, तत्र तत्य सामान्यत उपलब्धिः किं विशेषतः उपलब्धिरिति संशयेन पुनर्विशेषज्ञानार्थ शिष्यप्रश्नस्तस्य भेदकमुत्तरवचनं नातः पुनरुक्तमिति बोध्यम् । तत्र समुत्थानादिषु तावत्समुत्थानादिविशेषेभ्यः ॥३॥
चक्रपाणिः-समुत्थानेत्यादौ लिङ्गान्तर्निविष्टा उपद्रवा न पृथगुच्यन्ते ; वेदनारूपञ्च लिङ्ग गुल्मलिङ्गान्तर्गतमपि वेदनाप्रधानविकारेषु प्रायो वेदनयैव विशेषावधारणं भवतीति पृथगदर्शितम् ; सम्प्राप्तस्विहाकथनं गुल्मविशेषागमकत्वेनैव बोद्धव्यम्, गुल्मविशेषविज्ञानन्चेहाधिकृतम् ; संख्यादिभेदभिन्ना तु सामान्यसम्प्राप्तिः सर्वरोगनिदान एवोक्तति भावः ; बलकालभिन्ना तु सम्प्राप्तिर्यद्यपि वातिकत्वादिविशेषं गमयत्यपि, तथाप्यल्पत्वात् तथा लिङ्गगृहीतत्वाञ्च सा नाद्रियते। दिवसान्तजरणान्तादिबलसंप्राप्तिर्हि लिङ्गमध्य एव पठ्यते तत्र तत्र ; तेन लिङ्गग्रहणेनैव तत् सुस्थम् । प्रागपञ्च यद्यपि पृथग्यातादिगुल्मगमकं साक्षान पठितम्, तथापि विशेषलिङ्गाव्यक्ततारूपविशिष्टं प्राग्रूपं विशेषलिङ्गकथनेनैव उक्तमेव ; तेन वातादिगुल्मविशेषगमक
For Private and Personal Use Only