SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८४ चरक-संहिता। { गुल्मनिदानम् यदा पुरुषो वातलो * ज्वरवमनविरेचनातिसारान्यतमकर्षणेन कर्षितो वातलमाहारमाहरेच्छीतं वा, विशेषणातिमात्रस्नेहपूर्वे + वा वमनविरेचने पिबत्यनुदीणां वा च्छदिमुदीरयत्युदीर्णान् वातमूत्रपुरीषवेगान् रुणद्धि, अत्यशितो वा पिबति नवोदकमतिमात्रम्, अतिसंक्षोभिणा वा यानेन याति, अतिव्यवायव्यायाममद्यशोकरुचिर्वाभिघातमृच्छति वा, विषमाशनशयनासनस्थानचंक्रमणसेवी वा भवति, अन्यद्वा किञ्चिदेवंविधमतिमात्रं व्यायामजातमारभते, तस्यापचाराद् गङ्गाधरः-तत्रादौ वातजगुल्मसमुत्थानमाह-यदत्यादि । वातल इति गर्भारम्भप्रभृति वातबहुलः। कर्षणेनाक्रमणेन कर्षित आक्रान्तः। वातलं वातदमाहारं शीतं वेति शीतमाहारं वेत्यर्थः। विशेषेणेतिपदेन ज्वरादिकर्षणानां तैश्च कर्षितस्य वातलाहारस्य सर्वगुल्मकारणवम् अतिमात्रस्नेहपूर्वकवमन विरेचनादीनां वातगुल्मकारणवं ख्यापितम् । पिवतीति बाहुल्येन पानोपदेशः तेन भक्षणाशनलेहा अपि बोध्याः । वमनविरेचने औषधे। अनुदीर्णामनुपस्थिताम् । उदीरयति प्रवर्त्तयति वमनचेष्टां करोतीति। उदीर्णान् प्रवृत्तान् निरुणद्धि निगृह्णाति । अत्यशित इति कर्तरि क्तः, कृतः कर्तरीत्युक्तरन्यत्रापि प्रयोगतः कृतो भवन्तीति। अति अशितं येन स इति वा। नवोदकमतिमात्रमित्यन्तश्छेदः। नवोदकं प्राट्कालिकजलम् । अतिमात्रं संक्षोभिणेति अतिशयशरीरप्रचालकेन । अतिव्यवायादिरुचिरतिव्यवायादिकमाचरितवान् । अभियातं दण्डाद्याघातमृछति प्रामोति वा। अन्यदवेति उक्तव्यायामातिरिक्तं व्यायामजातं व्यायामसमूहं बलवदादिभिः सह विग्रहादिकम् । एवंविधमिति उक्तरूपम् । तस्येति उक्तस्य ज्वरादिकर्षितादेः पुरुषस्य अपचारादित्युक्तनिदानादिमध्ये पूर्वरूपपाठो न्याय्य एवेति ; किंवा पूर्वरूपविशेषोऽप्यत्र रक्तपित्तादिरोगापेक्षया सामान्योक्तोऽपि विशेषो ज्ञेयः ॥ ३ ॥ ___ चक्रपाणिः-वातलो विशेषेणेतिवचनात् पित्तलादेरपि यथोक्तमाचरतो वातगुल्मो भवति, वातलस्य त्वत्यर्थमिति दर्शयति । शीतं वा विशेषेणेति अत्यर्थशीतमित्यर्थः। अतिमात्रमिति च्छेदः ; अतिव्यवायव्यायामादिरुचिर्भवतीति शेषः ; व्यवायादिरुच्या व्यवायाद्याचरणं * इतः परं “विशेषेण' इत्यधिकं पठ्यते चक्रेण। + अतिमात्रमस्नेहपूर्बे इति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy