SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः निदानस्थानम्। १२८५ वायुः प्रकोपमापद्यते। स प्रकुपितो वायुमहास्रोतोऽनुप्रविश्य रौच्यात् कठिनीभूतमान्लुय पिण्डितोऽवस्थानं कुरुते, हृदि वस्तौ पार्श्वयोर्नाभ्यां वा। स शलमुपजनयति ग्रन्थींश्वानेकविधान् । पिण्डि तश्चावतिष्ठते, स पिण्डितत्वाद् गुल्म इत्यभिधीयते ॥४॥ तत्तदपचारात्। स वायुः। महास्रोत इति कोष्ठगतग्रहण्यादिकं दृहद्विवरसिराम्। रौक्ष्यात् कठिनीभूतमिति निरवयवोऽपि वायुरुक्तहेतुसेवनेन रोक्ष्यगुणतः कठिनीभूतं दृढ़ीभूतं महास्रोत आप्लुत्य आटतीकृत्यार्थात् तदाप्लुत्य तत्स्रोतसा मिश्रितः पिण्डितः पिण्डाकारः सन्नवस्थानं स्रोतोमध्येऽवस्थिति कुरुते। __ ननु स्रोतोमध्ये कुत्रावस्थानं कुरुते, इत्यत आह-हृदीत्यादि। नाभ्यामिति च्छेदः। ननु हृदादाववस्थानं कृता किं कुरुते इत्यत आह-स इत्यादि । स हृदाद्यन्यतमस्थानावस्थितः पिण्डितो वायुः शूलं वातोत्पन्नमनेकविधं वेदनाविशेषं तोदभेदादिरूपमुपजनयति करोति । ग्रन्थींश्चानेकविधानुपजनयतीत्यन्वयः। नन्वेवं कृला पिण्डितभावं किं त्यजतीत्यत आहपिण्डितश्चावतिष्ठते इति न तु पिण्डितभावं मुश्चतीति भावः। इति वातगुल्मस्य विधिरूपा सम्प्राप्तिः। ननु कथं गुल्म इत्युच्यते इत्यत आह-स इत्यादि। स ज्वरादिकर्षणान्यतमादिकर्षितादेर्वातलाहारादुपसेवनेन कुपितो महास्रोतोऽनुपविष्टो रोक्ष्यात् कठिनीभूतो महास्रोत आप्लावी पिण्डितीभूतो हृदाद्यन्यतमस्थानावस्थितः शूलकारी ग्रन्थिकारी च पिण्डितो वायुः पिण्डितलात् पिण्डाकारलाद लक्षयति । रौक्ष्यात् कठिनीभूतमिति महास्रोतोविशेषणम् ; तच्च प्रकुपितस्य वायो रौक्ष्येण यथोक्तज्वरकर्षणादिहेतुकृताच रौक्ष्यात् कोष्टस्य कठिनत्वमुपपन्नम्। आप्लुत्येति व्याप्य कोष्ठमेव ; अन्यत्राप्युक्तम्-आल्पुतं मारुतेनेह शरीरं यस्य केवलम्' इति ; आप्लुतं व्याप्तमित्यर्थः ; यदा तु, 'रौक्ष्यात् कठिनीभूतः' इति पाठः, तदा वातविशेषणम्, वातस्य कठिनत्वमप्यत्र प्रकोपेण घनत्वमेव बोद्धव्यम् ; पिण्डित इति कुण्डलीभूतः ; पिण्डितश्चेति द्वितीय-पिण्डित'-शब्देन मांसाद्यतुण्डनेन गुल्मप्रदेशस्यापि पिण्डितत्वमुच्यते ; तेन पूर्वोक्त-'पिण्डित'शब्देन वायोः पिण्डितत्वेन न पौनरुक्त्यम्। अनेकविधानिति च्छेदः । ग्रन्थींश्चानेकविधानिति 'दीर्घ'-'वृत्त'. For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy