________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८६
चरक संहिता |
[ गुल्मनिदानम्
स मुहुराध्माति, मुहुरल्पत्वमापद्यतेऽनियत विपुलाणुवेदनश्च भवति चलत्वाद्वायोश्च, मुहुः पिपीलिकासंप्रचार इवाङ्गेषु तोदभेदस्फुरणायामसङ्कोचसुप्तिहर्षप्रलयोदयबहुलः, तदातुरश्च सूच्येव शङ्कनेवातिसंविद्धमात्मानं मन्यते । अपि च दिवसान्ते जीय्यति शुष्यति चास्यास्यमुच्छ्रासश्चोपरुध्यते हृष्यन्ति चास्य रोमाणि । वेदनायाश्च प्रादुर्भावे प्रीहाटोपान्त्रकूजनाविपाकोदावर्त्ताङ्गमर्दमन्याशिरः शङ्खशूल ब्रनरोगाश्चैनमुपद्रवन्ति । गुल्मइत्यभिधीयते । सुश्रुतेऽप्युक्तम् । कुपितानिलमूलत्वाद् गूढमूलोदयादपि । गुल्मवद्वा विशालवाद गुल्म इत्यभिधीयते ।। इति । अत्र गुल्मवदिति पिण्डितवदित्यर्थः । इति वातगुल्मे निरुक्तिकथनात् सामान्यगुल्म निरुक्तिवध्या ॥ ४ ॥
गङ्गाधरः- वातगुल्मरूपाण्याह - स इत्यादि । स इति वातगुल्मः । मुहुराध्माति मुहुरुपचीयते मुहुरल्पत्वमापद्यते मुहुरपचीयते । अनियता विपुलाणुर्वा वेदना यत्र स तथा कदाचित् विपुलवेदनः कदाचिदणुवेदन इत्यर्थः । नन्वेवंवेदनः कुत इत्यत आह-चलवाद् वायोरिति । ननु केवलमनियतविपुलाणुवेदनt वायोवलवादुतान्यलिङ्गो भवति न वेत्यत आह- वायोश्चेत्यादि । चकारात् वायोवखात् पिपीलिकासंप्रचार इवाङ्गेषु तोदादीनां हर्षान्तानाम अन्यतमस्य प्रलयोदयौ विनाशोत्पादौ बहुलौ यत्र स तथा । एवञ्च भवति तदातुरश्चेत्यादि । दिवसान्तेऽपरा, शुष्यति चास्यास्यं वायोः शोषकत्वात् । उच्छ्रासचोपरुध्यते वातावृत स्रोतस्त्वात् । वेदनायाश्चेत्यादि प्रादुर्भावे बाहुल्येन स्रोतोऽन्तराले वेदनायाः शूलस्य जनने प्लीहाटोपादयश्चैनं वातगुल्मिनमुपद्रवन्ति । इत्यमी वातगुल्मोपद्रवा अपि वातगुल्मलिङ्गान्युच्यन्ते लिङ्गान्तगतत्वेन पाठात् न तु लिङ्गातिरिक्ताः परत्त्वपरलिङ्गापेक्षयाधिक बलवत्तया रोगोत् पादानन्तरमतिपीड़ा करत्वादुपद्रवा उच्यन्ते इत्यभिप्रायेणाचार्यो नोपद्रवान 'स्थूला' दिभेदेन भिन्नान्; 'पिण्डितत्वात् गुल्मः इत्युच्यते' इत्यनेन लतादिगुल्मसादृश्यनिबन्धनां
संज्ञां दर्शयति | आधमति विस्तारीभवति; अनियतविपुलाणुवेदन इति कदाचित् विपुलवेदनः कदाचिदल्पवेदनश्चानियतमेव भवति अत्रैव हेतुमाह - चलत्वाद् वायोरिति । आयामो विस्तरणम् ; हर्षो रोमहर्षः ; प्रलयो नाशः, उदयो जन्म, स्फुरणादीनां जन्मनाशौ बहुधा भवत * आधमतीति पाठः साधुः ।
For Private and Personal Use Only