________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम् ।
१२८७ कृष्णारुणपरुषत्वनखनयनवदनमूत्रपुरीषश्च भवति। निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरते ॥५॥
(इति वातगुल्मः।) तैरेव तु कर्षणः कर्षितस्याम्ललवणकटुक्षारोष्णतीक्ष्णशुक्तव्यापन्नमयहरितकलाम्लानां विदाहिनाञ्च शाकधान्यमांसादीनाम् उपयोगादजीर्णाध्यशनात् रौक्ष्यानुगते चामाशये वमनविरेचनमतिवेलं सन्धारणं वातातपो चातिसेवमानस्य पित्तं सह मारुतेन प्रकोपमापद्यते। तत् प्रकुपितं मारुत आमाशयकदेशे संवतः तानेव वेदनाप्रकारानुपजनयति, य
निदानादिभ्यः पृथगुवाच। कृष्णारुणेति कृष्णत्वं वाऽरुणत्वं वा परुषत्वञ्च खनखादिपु तादृशानि खगादीनि यत्र स तथा। निदानोक्तानीत्यादि सुगमम् ॥५॥
(इति वातगुल्मः । ) गङ्गाधरः-पित्तगुल्मनिदानमाह-तैरेवेत्यादि। तैरिति वातगुल्मोक्तज्वरादिभिः कपणैः कर्षितस्येति अम्ललवणादिवचनेन वातलमाहारमाहरतीत्यस्य प्रतिषेधः कृतः। विदाहिनाञ्च शाकादीनामुपयोगान्न तु सर्वेषां शाकादीनामिति पित्तप्रकोपहेतवः। अजीर्णाध्यशनादयो वातकोप. हेतवः। आतपश्च वातपित्तकोपहेतुः। अत एव पित्तं सह मारुतेन प्रकोपमापद्यते ।
ननु पित्तमारुती प्रकुपितो द्वाय किं गुल्मं कुरुतः ? इत्यतः पित्तगुल्मस्य विधिरूपां सम्माप्तिमाह--तदित्यादि। तत् पित्तं प्रकुपितं कम्मे, मारुत इति कर्ता प्रकुपित एव आमाशयैकदेशे संवत्यै संपिण्डा
इत्यर्थः ; अग्रापि चलत्वमेव वायोर्हेतुर्बोदव्यः ; हृष्यान्त चास्य रोमाणीति वेदनाप्रादुर्भावे प्रतिनियमन, स्फुरणादौ तु हर्षी विनापि वेदनामिति ज्ञयम् ॥ ४॥५॥
चक्रपाणिः-रोक्ष्यानुगते चामाशय इति रोक्ष्येण हेतुनाऽतीवरुक्षीकृत इत्यर्थः ; किंवा, रोश्यामुगते चामाशये सति बम सेवसानस्येति योजनीयम्, भामाश पैकदेशे संमूवति.
For Private and Personal Use Only