________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९८८
चरक संहिता |
| गुल्मनिदानम्
उक्ता वातगुल्मे । पित्तन्त्वेनं विदहति कुक्षौ हृदुरसि कण्ठे वा विदद्यमानः सधूममिवोद्गार मुद्गिरत्यभ्लान्वितम् । गुल्माव - काशश्चास्य दह्यते दूयते धूप्यत्युष्मायते स्वियति क्लियति मृदुशिथिल इव स्पर्शासहोऽल्पलोमाञ्च भवति । ज्वरभ्रमदवथुपिपासागल तालुमुखशोषप्रमोहविभेदाश्चैनमुपद्रवन्ति । हरितहारिद्रत्वङ्नखनयनवदनमूत्रपुरीषश्च भवति । निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरत ॥ ६ ॥ ( इति पित्तगुल्मः । )
तरेव तु कर्षणैः कषितस्यात्यशनादतिस्निग्धगुरुमधुरशीताशनात् पिष्टेतुनीर तिलमाषगुड़ विकृतिसेवनातू, मद्यातिपानाद्धरित कातिक प्रणयनादानू पौदक ग्राम्य-मांसातिभक्षणात् तानेवेति मुहुराध्मातीत्यादुक्तरूपान् । ननु तत्सर्व्वं मारुतकार्य, वित्तन्तु किं करोतीत्यत आह- पित्तन्त्वेन मित्यादि । विदहति विशेषेण ज्वालां करोति कुक्ष्यादिषु । पित्तेन कुक्ष्यादिषु विद्यमानः पुरुषः सधूमं धूमेन सहितमिव गन्धवदम्लान्वितमुद्द्वारमुरिति । गुल्मावकाश इत्यस्य दह्यते दूयते इत्यादिभिरन्वयः । गुल्मावकाशो गुल्मप्रदेशः । ज्वरादय उपद्रवाः । एनं पित्तगुल्मिन पुरुषम् । हरितो वर्णः हरिद्वर्णः पालाशवणे इति यावत् । हारिद्रो हरिद्रावत् पीतवर्णः । शेषं सुगमम् ॥ ६ ॥ ( इति पित्तगुल्मः । ) गङ्गाधरः- कफगुल्मनिदानमाह तैरेवेत्यादि । तैरेवेति वातगुल्मोक्तज्वरादिभिः कर्षणैः । अतिस्निग्धादीनां यथायोग्यं केवलकफकरत्वं वातवचनात् पित्तगुल्मस्य कफगुल्मस्य च वस्तिः स्थानं न भवतीति दर्शयति वचनं हि" नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः” इति । वातगुल्मस्य तु वस्तिरपि स्थानं भवति अत एव तत्र सामान्येन 'महास्रोतः' इति कृतम् 'महास्रोतोग्रहणेन च वस्तिरपि गृह्यते, तथा वातगुल्म एव "हृदि वस्तौ” इत्यादि कृतम् दाहदूयनादयः पित्तवेदनाविशेषा असकृदव्याख्याताः दवथुर्धवक्किनेति लोके कथ्यते ॥ ६ ॥
;
;
चक्रपाणिः- श्लेष्मगुल्मेऽतिभुक्षस्येति अतिभुक्षितस्य अतिसुहितस्येति वा
* मन्दकमद्यातिपानात् इति वा पाठः ।
――
Acharya Shri Kailassagarsuri Gyanmandir
S
For Private and Personal Use Only
पाठ: ;