________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
निदानस्थानम् ।
१२८६ सन्धारणादतिसुहितस्य चातिप्रगाढ़मुदकपानात् संक्षोभादा शरीरस्य श्लेष्मा सह मारुतेन प्रकोपमापद्यते।
तं प्रकुपितं मारुत आमाशयकदेशे संवतः तानेव वेदना प्रकारानुपजनयति, य उक्ता वातगुल्मे। श्लेष्मा त्वस्य शीतज्वरारोचकाविपाकाङ्गमद-हर्ष-हृद्रोग-च्छर्दिनिद्रालस्य-स्तैमित्यगौरवशिरोऽभितापानुपजनयति, अपि च गुल्मस्य स्थैर्यगौरवकाठिन्यावगाढ़सुप्तताश्च , तथा कासश्वासप्रतिश्यायान् राजयक्ष्माणञ्चातिवृद्धः श्वैत्यञ्च त्वङ्नखनयनवदनमूत्रपुरीषेषु उपजनयति। निदानोक्तानि चास्य नोपशेरते विपरीतानि चोपशेरते ॥७॥
इति श्लेष्मगुल्मः। त्रिदोषहेतुलिङ्गसन्निपाते तु सान्निपातिकं गुल्ममुपश्लेष्मकरखञ्च बोध्यम् । तं कर्फ प्रकुपितं प्रागुक्तहेतुभिः। मारुतः कर्ता। श्लेष्मा खस्येति । तत्र गुल्मे यं श्लेष्माणं मारुत आमाशयैकदेशे संवर्ता तानेव वेदनाप्रकारान उपजनयति, स श्लेष्मा, खस्य गुल्मिनः। अपि चेत्यादि गुल्मस्य ग्रन्थिरूपस्य स्थैर्यादीनुपजनयति श्लेष्मा। तथेत्यादि अतिद्धोऽयं श्लेष्मा कासादीन् राजयक्ष्माणञ्चोपजनयति, बगादिषु श्वैत्यञ्चोपजनयति, इत्येते कासादयः कफगुल्मानामुपद्रवा बोध्याः। अतिवृद्ध इति श्लेष्मणः कत्त खवचनेन सर्वत्रैवोपद्रवाणां तत्तग्राधिकरहेतूप
हितदोषवलेन उपट हितबलव्याधिजन्यखं न तु तत्तयाध्यारम्भकदोषजन्यत्रमित्युक्तं प्रत्याखाातम् ॥७॥
गङ्गाधरः-त्रिदोषेत्यादि । इहैवमेकैकदोपस्य ये हेतवो यानि च लिङ्गानि उक्तानि तेषां त्रयाणां दोषाणां तेषां हेतूनां लिङ्गानाश्च सन्निपाते परस्परमिलने । तुशब्दादधिकलिङ्गानाञ्च सन्निपातो विकृतिविषमसमवायारब्धखात् । चिकित्सिते महारुजं दाहपरीतमश्मवदित्यादिलक्षणेन त्रिदोषजगुल्मस्य यद्यपि राजयक्ष्मा त्रिदोषजः, तथापि कफगुल्म एव रोगमहिम्ना अजनितदोषत्रयेण जन्यत इति बोद्धव्यम् ॥ ७॥ - वेदनाप्रकारानित्यत्र गाढवेदनाप्रकारान् इति द्वितीयः पाठः ।
For Private and Personal Use Only