________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२१० चरक-संहिता।
[ गुल्मनिदानम् दिशन्ति कुशलाः। स विरुद्धोपक्रमत्वादसाध्यो निचयगुल्मः ॥८॥
शोणितगुल्मस्तु खलु स्त्रिया एव भवति न पुरुषस्य, गर्भकोष्ठातवागमनवैशेष्यात् । पारतन्त्रवादवैशारद्यात् सततम् वक्ष्यमाणवात् । तथा तत्रैव निमित्तलिङ्गान्युपलभ्य गुल्मे इत्यादिना चिकित्साविशेषार्थमेव द्वन्द्वजानां त्रयाणां वक्ष्यमाणवेऽपि संखवायां गणनाभावेन प्रकृतिसमसमवायारब्धखखयापनात् त्रिदोषजस्य संखवायां गणितखेन विकृतिविषमसमवायारब्धवं प्रकृतिसमसमवायारब्धवञ्च खग्रापितवान् । विरुद्धोपक्रमबादिति तुल्यबलविरुद्ध उपक्रम आरम्भो यस्य तस्मात् । न ह्यस्ति सान्निपातिकज्वरादेरिव विकृतिविषमसमवायारब्धवेऽपि पञ्चकषायकल्पनैः कल्पित. मंशमनौषधसत्त्वेऽपि षड़पक्रमाणां वातादियोग्यानां परस्परविरुद्धखेन त्रिदोष. हरतया योगिकलं निचयगुल्मे व्याधिस्वभावादिति ॥८॥
गङ्गाधरः-शोणितगुल्मस्विति उद्दिष्टः शोणितगुल्मः। स्त्रिया एवेति न तु पुरुषस्येति । शिश्नादिचिह्नस्य प्राणिमात्रस्यैव पुरुषपदेनोक्तवेन तल्लाभापत्तेः । ननु कुतो न पुरुषस्य शोणितगुल्मः स्यादित्यत आह-गर्भत्यादि। गर्भात गर्भाशयरूपकोष्ठादात्तैवस्य रजइत्याख्यरक्तस्यागमनेन स्त्रीतः पुरुषस्य वैशेष्यात् तद्रक्ताभावात् । प्रसादरक्तन्तु व्याधिस्वभावान्न गुल्ममारभते ।
आवशोणितगुल्मस्य निदानान्याह-पारतत्रादित्यादि। पारतन्त्र प्रायेण पराधीनत्वम् । अवैशारद्यादिति स्त्रीजातीनां स्वभावत एव प्रायो
- चक्रपाणिः-विप्रतिषिद्धोपक्रमत्वादिति परस्परं वातादिविरुद्धोपक्रमत्वात् । इह च विप्रतिषिद्धोपक्रमत्वं विकृतिविषमसन्निपातेन बोद्धव्यम् ; तेन साध्यत्रिदोषज्वरादौ वातादिविरुद्धोपक्रमत्वं सदपि नासाध्यतामापादयति ॥ ८॥
चक्रपाणिः-शोणितगुल्मे 'स्त्रिया एव' इतिवचनादेव 'न पुरुषस्य' इति लब्धे पुनः 'न पुरुषस्य' इतिवचनं स्पार्थम्। गर्भात्मकः कोष्ठो गर्भकोष्ठस्तस्मिन्, गर्भकोष्ठे य आर्तवस्य आगमनरूपो विशेपो रक्तगुल्मकारणम्, स स्त्रिया एव भवति ; तेन एवंरूप आर्त्तवप्रतिबन्धजन्यः शोणितगुल्मः पुरुपस्य न भवति। सामान्यशोणितष्टिजन्यस्तु पुरुषस्यापि भवति ; तथाहि वक्ष्यति-“कफे वाले जितप्राये पित्तं शोणितमेव वा। यदि कुप्यति वा तस्य क्रियमाणे चिकित्सिते ॥” इति ; तथा “गुल्मोपकुशवीसा इत्यादयो रक्तजगदाः” इत्युक्तम् । पारतन्त्रवादि
For Private and Personal Use Only