SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः । निदानस्थानम् । १२६१ उपचारानुरोधाद वेगानुदीर्णानुपरुन्धत्याः आमगर्भे वाप्यचिरपतिते अथाप्यचिरप्रजाताया ऋतौ वा वातप्रकोपणानि आसेवमानायाः क्षिप्रवातःप्रकोपमापद्यते। स प्रकुपितो योन्या मुखमनुप्रविश्यातवमुपरुणद्धि। मासे मासे तदातवमुपरुध्यमानं कुक्षिमभिवर्द्धयति, तस्याः शूलकासातिसारच्छदारोचकाविपाकाङ्गमईनिद्रालस्यस्तैमित्यकफप्रसेकाः समुपजायन्ते । स्तनयोश्च स्तन्यम्, ओष्ठयोः स्तनमण्डलयोश्च कायॆमत्यर्थ ग्लानिश्चक्षुषोर्मर्छा हृल्लासो दोहदः श्वयथुश्च पादयोः, ईषविशारदखाभावः। सततमुपचारानुरोधादिति प्रायेण गृहकर्मानुरोधः स्त्रीणामस्ति तेषामन्यतमात् पुरीषादीनां वेगानुदीर्णानप्युपरुणद्धि इति उदीर्णवेगानुपरुन्धत्याः क्षिप्र वातः प्रकोपमापद्यते। अपि च। अचिरपतिते अभिनवपतिते आमगर्भे आसप्तममासिकगर्भे अल्पकालातीतपतिते सति या स्त्री वातप्रकोपणान्यासेवते, तस्याः क्षिम वातः प्रकोपमापद्यते। अथवा या स्त्री अचिरमल्पकालातीतं प्रजाता प्रमूता वातप्रकोपणान्यासेवते, तस्या वायुः क्षिप्र प्रकोपमापद्यते। अथवा या स्त्री ऋतौ सति वातप्रकोपणानि आसेवते तस्याः क्षिप्र वातः प्रकोपमापद्यते। विधिसम्प्राप्तिमाह-स इत्यादि। स इति वायुः। योन्या मुखम् अन्तयौनौ रजःक्षरणस्रोतोमुखं मासे मासे तेन वायुनोपरुध्यमानमक्षरत् तदात्तेवं कत्त। तद्विज्ञानार्थ लिङ्गान्याह-तस्या इत्यादि। ओष्ठयोः स्तनमण्डलयोश्च काष्णा कृष्णवर्णत्वं, स्तनमण्डलं चूचुकं परितः कृष्णमण्डलम् । अत्यर्थ ग्लानिश्चक्षुषोरिति चक्षुषोरालस्यातिशयः। दोहदः सवेरसाहारादिषु हेतुत्रयं वेगविधारणे, पारतन्त्रवादेव स्त्रियो वेगं विधारयन्ति। अवैशारद्यमज्ञानम् ; तेन वेगविधारणेन महान् व्याधिर्भवत्येव, अज्ञा एव वेगं विधारयन्ति। उपचारादिति भरौद्यपचारपरत्वात् ; योनिमुखमिति गर्भाशयद्वारम्। स्तनयोः स्तन्यमिति रोगप्रभावादेव बोद्धव्यम् ; आर्त्तवरोगलक्षणस्य व्याधेरयं प्रभाव', यतः स्तन्यं करोति, दृष्टत्वात् ; तेन, यदुच्यते-“स्त्रिया हुपत्पन्नगर्भायास्त्रिधा रसः सम्पद्यते स्वशरीरपुष्टये, स्तन्याय, गर्भाभिवृद्धये च” इति वचनात् 'गर्भ एव स्तन्यं भवति,' तन्निरस्तं मन्तव्यम् ; दोहदशाब्देनेह नार्या उच्चावचतावदिच्छायोगो दोहदाभिधानो ज्ञेयः ; यदुक्तं क्षारपाणिना For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy