SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६२ चरक-संहिता। गुल्मनिदान चोद्गमो रोमराज्या योन्याश्चाटालत्वमपि च योन्यां दौगन्ध मात्रावश्चोपजायते। केवलश्चास्या गुल्मः पिण्डित एव स्पन्दते, तामगर्भा गर्भिणीमित्याहुमूढाः॥६॥ कासा । श्वरथुश्च पादयोः। ईषद्रोमराज्या योन्याश्चाटालत्वं विस्तृतवम् । केवलश्चास्या इति। अस्या आत्तेवगुल्मिन्याः केवलः कृत्स्नः पिण्डितरूप एव गुल्मः स्पन्दते इति गर्भाद भेदः, गर्मो हि करचरणाद्यवयवेन स्पन्दते निःशूलश्च । तामावगुल्मिनीमगर्भा मूढ़ा आर्तवगुल्मलक्षणान्यविद्वांसो गर्भिणीमाहुः ॥९॥ "दोहदिनी वा स्यानारी शोणितगुल्मिनी । न विह वहृद्यस्य कृतो भेदोऽभिप्रतः ; स हि गर्भहृदयस्य मातृहृदयेन हि सम्बन्धो भवतीति ; वचनं हि-"मातृजन्त्वस्य हृदयं मातृहृदयेन सम्बद्धं भवति रसवाहिनीभिः संवाहिनीभिः ; तस्मात् तयोर्भक्तिः सम्पद्यते” इति ; शोणितगुल्मे च चेतना नास्ति ; तेन नैवंरूपमिद्द हृद्य दोहदम् ; तेन गर्भभ्रान्त्या यत्किञ्चिदभ्यवहारेच्छादिलक्षणं दोहदं तस्या भवति ; असत्यपि विषसम्बन्धे यथा शङ्काविषात् विलिङ्गानि भवन्ति ; वचनं हि-“शङ्काविषेणोपहताः कुर्वन्ति विषलक्षणम्" इति । चाटालत्वं विस्तृतत्वम् ; योनिविस्तारेण च रोमराज्या अपि विस्तरणं वितन्यमानचर्मरोग्णा चैवोपपन्नम् ; केवलः स्पन्दत इति नैकदेशेन ; गर्भो ह्यकदेशेनापि स्पन्दते ; तेन एतल्लक्षणं गर्भशङ्काव्यावर्त्तकम् ; ननु यदुक्त रक्तगुल्मे–'समगर्भलिङ्गः" इति, तथा 'मासे व्यतीते दशमे चिकित्स्यः' इति तदनुपपन्नम् ; यतः गर्भाद् विशिष्टं पिण्डितस्पन्दनं विद्यत एव, तथा नवत्वं सुखसाध्यताहेतुत्वेनोक्तम् ; इह च कथं कालातिक्रमेणोपक्रमणीयत्वमुच्यते ? अत्र व्रमः-समगर्भलिङ्गस्तावत् भूरिगर्भसमलिङ्गताभिप्रायेणोक्तः ; किंवा समस्यावैकारिकस्य दशममासिकगर्भस्य लिङ्गानि यस्य स समगर्भलिङ्गः ; तेन वैकारिकसुप्तनागोदरादेर्लक्षणं नेह भवतीति दर्शयति ; दशममासचिकित्स्यत्वम्चेह व्याधिमाहिम्ना बोद्धव्यम्, दशममास एवायं शिथिलीभूतः सन् चिकित्स्यो भवतीति व्याधिप्रभावः ; दृशश च व्याधिप्रभावकृता कालापेक्षा--"ज्वरे पेयाः कषायाश्च सर्पिः क्षीरं विरेचनम्। षड़हे पड़हे देयम्” इत्यादिषु, यत् तु समगर्भलिङ्गत्वेन गर्भशङ्कानिरासार्थे रक्तगुल्मस्य दशममासापेक्षणम्, तन्न ; दशममासादोगपि पिण्डित. स्पन्दनेन रक्तगुल्मस्यावधारणात्, तथा दशममासादूद्ध मपि गर्भावस्थानस्य दृश्त्वेन गर्भशङ्कानपगमाञ्च ; वक्ष्यति हि दशममासाादूर्द्धमवस्थानं गर्भस्य, 'वैकारिकमत ऊर्द्ध मवस्थानम्" इति वचनात् ॥९॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy