________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२य अध्यायः
निदानस्थानम् ।
१२७५ सन्तर्पणनापतर्पणन वा मृदुमधुरशिशिरतिक्तकपायरभ्यवहाय्य प्रदेहपरिषकावगाहसंस्पर्शर्वमनापर्वा तत्रावहितेनेति ॥ ७॥
भवन्ति चात्र। साध्यं लोहितपित्तं तद यदूई प्रतिपद्यते । विरेचनस्य यो गत्वाद बहुत्वादभेषजस्य च ॥ विरेचनं हि पित्तस्य जयार्थ परमौषधम् ।
यश्च तत्रानुगः श्लेष्मा तस्य चानधर्म स्मृतम् ॥ प्रयनितव्यं प्रयत्नः काय्यः। ननु केन प्रकारेण प्रयतितव्यमित्यत आह-मात्रामित्यादि। मात्रां दोपवलपुरुषवलाद्यनुरूपेणाहारविहारौषधानां परिमाणम् । देशं शीतं वोणं वा साधारण वा । तथा कालश्च । ननु केन प्रशान्तौ प्रयतितव्यमित्यत आह---सन्तपणेनेत्यादि । अत्र वाशब्दो व्यवस्थावाची, तेन रुक्षदुबलपुरुषस्याधोगरक्तपित्ते वा सन्तपणेन रक्तपित्तहरद्राक्षादिद्रव्यकृतद्रवेण आलोड़ितसक्तकाभ्यवहारेण। स्निग्धप्रबलपुरुषस्योद्धगरक्तपित्ते वापतपणेन अनशनेन। ननु केषां द्रव्याणां सन्तर्पणेन औपधत्वकल्पनेन प्रयतितव्यमित्यत आह-मृद्वित्यादि। मधुरेति वातानुवन्धे। तिक्तकपायेति कफानुबन्थे । शिशिरेति सव्वत्र। मृद्वादिभिरभ्यवहार्यादिकानां त्रयाणां सम्बन्धः। ननु केन पुरुषेण प्रयतितव्यमित्यत आह---तत्रावहितेनेति । अवहितोऽवधानशाली पुरुपः ॥ ६॥७॥
गङ्गाधरः--अथोक्तार्थानां तद्विधगसायार्थ श्लोकेन प्रवचनं करोतिभवन्तीत्यादि। साध्यमित्यादि। विरेचनस्य योगिखादिति विरेचनं पित्तहरणानामिति पूर्वमुक्तमिति पित्तजयार्थ विरेचनं श्रेष्ठतममौषधम् । ननु ऊगे लोहितपित्ते केवलं न पित्तमस्ति ककानुबन्धश्वास्ति, तन् कथं पित्तमात्रजयभेषजस्य परमवं तत्साध्यखेन साध्यखमित्यत आह-यश्चेत्यादि । तस्य सन्तर्जनाभिद्रवणोष्णवरोषाः" इति । सन्तर्पणेनेति अधोगस्य ; अपतर्पणेनेत्यूद्ध गस्य ; संस्पृश्यत इति संस्पर्शनं मुक्तादि ॥ ६७॥
चक्रपाणि:-ऊद्ध गस्य विरेचनयोग्यतां विवेचयति-विरेचनमिति । ऊद्धगे रक्तपित्ते प्रधानं पित्तम्, अनुबन्धश्च श्लेष्मा ; रक्तपित्ताख्यव्याधिजेतव्यः, अत्र पित्तस्य जयार्थे विरेचनं तावत् परमौषधम् , “विरेचनं पित्तहरणानाम्” इतिवचनादिति भावः। यश्च तत्रान्वयोऽनुबन्धस्वरूपः
For Private and Personal Use Only