SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२७४ चरक-संहिता। [ रक्तपित्तनिदानम् रक्तपित्तप्रकोषस्तु खलु पुरा दक्षयज्ञध्वंसे रुद्रकोपामर्षप्रभवाग्निना प्राणिनां परिगतशरीरप्राणानामभूज्ज्वरमनु ॥६॥ तस्याशुकारिणो दावाग्नेरिवापतितस्यात्ययिकस्य आशु प्रशान्त्यै प्रयतितव्यम्। मात्रां देशं कालञ्चाभिसमीक्ष्य वातपित्तानुगं वातकफानुगं विशेषेण कफपित्तानुगं स्यात् तदा सुखेन याप्यमन्यकाले तु कष्टेन याप्यम् । यदि शरदि विशिष्टकफपित्तवातैः संमृष्टं स्यात् तदा खसाध्यं चिरकारिखेन बोध्यम् अन्यकाले तु शीघ्रकारिखनासाध्यं भवतीति। अधोगन्तु यदि शरदि केवलविशिष्टवातानुगं स्यात् तदा सुखेन याप्यं स्यादन्यकाले तु कष्टेन याच्यम्, कफेन विशिष्टपित्तेन वा संसृष्टं स्यात् तदापि तथा । यदि शरदि विशिष्टवातपित्ताभ्यां विशिष्टवातकफाभ्यां विशिष्टपित्तकफाभ्यां वा तदातिकृच्छण याप्यमसाध्यं वा चिरकारि। तथान्यान्यकाले च। त्रिदोषानुगन्तु सव्वकाले क्षिप्रासाध्यमिति बोध्यम् । उभयगन्तु सर्वथैवासाध्यमिति ॥५॥ ___ गङ्गाधरः-ननु पूर्वमुक्तं प्रथमत एव तावदायान् लोभातिद्रोहकोपप्रभवानष्टौ व्याधीनित्यादि तदयं रक्तपित्तरोगः किंभव इत्यत आह--रक्तपित्तप्रकोपस्वित्यादि । पुरा पूर्वस्मिन् काले रक्तपित्तप्रकोपस्तु ज्वरात् अभवत् । ज्वरमनु महेश्वरकोपात् ज्वरोन्पत्तितः पश्चात्। केन प्रकारेण तदाह-दक्षेत्यादि। दक्षस्य प्रजापतेः यज्ञध्वंसे सति रुद्रकोपप्रभवेण रुद्रस्यासौम्यभावमापन्नस्य शिवस्य कोपादमांच प्रभयो यस्य, तेनामिना ज्वररूपेण परिगताः परीताः शरीरञ्च प्राणाश्च येषां तेषां प्राणिनामर्थात तात्कालिकज्वरिणां ज्वरसन्तापात् ज्वरानन्तरं रक्तपित्तप्रकोपोऽभवदिति भावः। यदि पुरा ज्वरसन्तापाद्रक्तपित्वं नाभविष्यदधुनापि यवकोदालकादुपसेवनात् नोदपत्स्यत । इति रक्तपित्तस्य प्रभवमुक्त्वा प्रभावमाह-तस्याश्वित्यादि । तस्य रक्तपित्तस्याशुकारिणोऽतिशीघ्र पाणहरणकारिणः। कस्येवेत्यत आहदावाग्नेरिवेति । आपतितस्य दावाग्नरिवाशु आगतस्य तथा दावाग्नेरिवाशु चात्ययिकस्य उपक्रमाभावे शीघ्र मारकस्य नितगमाश्वेव प्रशान्तौ प्रशमने चक्रपाणिः-- रक्तपित्तस्याप्याग्नेयत्वातिपादनार्थ पूर्वोत्पतिमाह- रक्तत्यादि। कोपयुक्तोऽमर्पोऽभिनिवेशः; अन्यत्रापि च कोपामर्षयोभंद उक्तः, यथा--"अमर्षसंरम्भविनग्नभावाः For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy