________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४८
चरक-संहिता। वर्गस्वरीयमिन्द्रियम् स्वप्नदर्शनञ्च दूताधिकारश्च पथि चौत्पातिकश्चातुरकुले भावावस्थान्तगणि च भेषजञ्च भेषजप्रवृत्तिश्च भेषजाधिकारयुक्तिश्च, इति परीक्ष्याणि भवन्ति प्रत्यनानुमानोपदेशैरायुषः प्रमाणावशेषं जिज्ञासमानेन भिषजा। तत्र खल्वेषां परीक्ष्याणां कानिचित् पुरुषानाश्रितानि भवन्ति, कानिचिच्च पुरुषसंश्रयाणि। तत्र यानि पुरुषानाश्रितानि तान्युपदेशतो युक्तितश्च परीक्षेत, पुरुषसंश्रयाणि प्रकृतितो विकृतितश्च ॥२॥
प्रतिच्छाया लोके या तु छायेत्युच्यते। दूताधिकारः आतुरस्य चिकित्साथ वैद्यानयनाय यो गच्छति स दूतस्तस्याधिकारस्तद्गतचेष्टादिः। पथि वैद्यस्य तदातुरचिकित्सार्थं गच्छतः पथि उत्पातकरभावदर्शनम्। आतुरकुले च आतुरस्यामात्यस्वगणेषु शुभाशुभसूचकानि यानि यानि भावावस्थान्तराणि । भेषजं ताधिहितमौषधम्। भेषजत्तिस्तस्मिन् व्याधौ प्रयुक्तस्य भेषजस्य शरीरे प्रवृत्तिः क्रिया। भेषजानामधिकारस्य तद्भपजस्य स आतुरोऽधिकारी वा न वेति भेषजाधिकारे युक्तिः। इति वर्णादीनि आयुषः प्रमाणावशेष जिज्ञासमानेन ज्ञातुमिच्छता भिषजा प्रत्यक्षानुमानोपदेशैः परीक्ष्याणि भवन्ति । नन्वेतानि कथं परीक्षितव्यानि भिषजा इत्यत आह--तत्रेत्यादि। एषां वर्णादीनां मध्ये कानिचिद् दूताधिकारादीनि। पुरुषं यस्यायुषः प्रमाणावशेषो जिज्ञास्यः तम्। कानिचित् वर्णादीनि उपदेशतः प्रश्नादितः युक्तितः ग्रहीतव्या। अयञ्च च्छायादिभेदः पन्नरूपीयेन्द्रिये दर्शयितव्यः। आतुरकुले भावावस्थारिष्टं यथा-"अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च। भिषङमुमूर्षतां वेश्म प्रविशन्नेव पश्यति ॥” इत्यादि। भेषजसंवृत्तौ रिष्टं यथा--"यमुद्दिश्यातुरं वैद्यः संवतयितुमौषधम् । यतमानो न शक्नोति दुर्लभं तस्य जीवितम्।" भेषजस्य विकारेण समं या युक्तिः, तत्र रिष्टं यथा"विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम्। न सिध्यत्यौपधं यस्य तस्य नास्ति चिकित्सितम्।" शेषे बहुरिष्टोदाहरणमुक्तम् । इति समाप्तौ। प्रत्यक्षपूर्वकत्वात् सर्वप्रमाणानामिहादौ प्रत्यक्षं कृतम् । यद्यपि वर्णादय आयुर्लक्षणप्रतिपादिता दीर्घायु प्रमाणजिज्ञासायामपि परीक्ष्यन्ते, तथापीह गुणारिष्टप्रकरणे आयुःप्रमाणाविशेषज्ञानार्थमेव परीक्षणीयाः। अत उक्तम् –'प्रमाणविशेष जिज्ञासमानेन' इति । पुरुषम् अनाश्रितानि दूताद्याश्रयाणि रिष्टानि। युक्तितश्चेत्यनुमानत इत्यर्थः । अत्र युक्तैरपि रिष्टत्वावधारणे क्षमत्वात् । प्रत्यक्षं हि दृतादीनां स्वरूपमानं गृह्णाति, रिष्टन्तु
For Private and Personal Use Only