SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः इन्द्रियस्थानम् । २१४७ शीलश्चाचारश्च स्मृतिश्च प्रकृतिश्च विकृतिश्चाकृतिश्च मेधा च बलञ्च ग्लानिश्च हर्षश्च रौक्ष्यश्च स्नेहश्च तन्द्रा चारम्भश्च गौरवञ्च लाघवश्च गुणश्च आहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च व्याधिश्च पूर्वरूपश्च वेदनाश्चोपद्रवाश्च छाया च प्रतिच्छाया च शुचिता। शीलं शीलनं सहजत्तम्। आचार आचरणं परम्परया शिक्षितव्यवहारः। स्मृतिः स्मरणम् । प्रकृतिः स्वभावः । विकृतिः सत्त्वशरीरयोः वैकृत्यम् । आकृतिराकारः शरीरस्य। मेधा धारणावती बुद्धिः। ग्लानिः अहर्षः । तन्द्रा निदैव । आरम्भः क्रियासु प्रवृत्तिः । गौरवं गुरुताधाबादीनाम् । लाघवं लघुता शरीरस्य । गुणश्चेति शारीरो गुणो मृदुतीक्ष्णशीतोष्णादयः । तत्र प्राधान्यात गौरवलाघवे पृथगुक्ते। आहारश्चेति अशितादिचतुविधोऽभ्यवहारः। विहारो विहरणम्। आचारस्तु शिक्षया व्यवहार उक्तस्तेनास्य भेदः। आहारपरिणामश्चेत्यभ्यवहतस्य परिणतिः। उपायो व्याधिपतिकाराय यो य उपायस्तत्सौष्ठवासौष्ठवाभ्यां शुभाशुभफलात्। अपायो व्याधेनिवृत्तिः। व्याधिः ज्वरादिव्याधिरेव । वेदनाः सुखदुःखे। छाया देहस्य च्छविः। काठिन्यायवबोधः। सत्त्वं मनः सत्त्वविकृतेरुदाहरणम् यथा-"औत्सुक्यं भजते सत्त्वं चेतोभिः आविशत्यपि" इत्यादि। भक्तिरिच्छा। शीलं सहजवृत्तम्। आचारः शास्त्रशिक्षाकृतो व्यवहारः। भक्तपादयो यद्यपि सत्वविकारत्वेन सत्वग्रहणेनैव लभ्यन्ते, यदुक्तम्-"भक्तिः शीलं शौचं द्वषः स्मृतिर्मोहस्त्यागो मात्सर्ये भयं क्रोधस्तन्द्रोत्साहस्तैक्ष्णंव माईवं गाम्भीर्य्यमनवस्थितमित्येवमादयः सत्त्वविकाराः” इति, तथापि भक्तयादीनामपि पृथगरिष्टाधिकरणत्वेन इह पृथक्करणम् । निद्रादौर्बल्यात् तन्द्रेति 'तन्द्रा'शब्देन निद्रोच्यते । अत्र च रिष्टमुक्तम् , यथा"निद्रा नित्या भवति न वा" इति। आरम्भ इति अरिष्टव्याध्युत्पादारम्भः। यदुक्तम्,"श्वयथुर्यस्य कुभिस्थो हस्तपादं प्रधावति" इत्यादि। गौरवे रिष्टं यथा--"निष्ठूरतज्ञ पुरीषञ्च रेतश्चाम्भसि मजति" इत्यादि। लाघवे रिष्टं गुरुणामङ्गानां लाघवं ज्ञेयम्। गुणारिष्ठम्, यथा"गुणाः शरीरदेशानां शीतोष्णमृदुदारुणाः। विपर्यासेन लक्ष्यन्ते स्थानेष्वन्येषु तद्विधाः" इति । आहाररिष्टं यथा-"आहारमुपयुञ्जानो भिषजा सूपकल्पितम्" इत्यादि। आहारपरिणामरिष्टं यथा-"टुब्बलो बहु भुङ्क्ते यः प्राग भुक्तादन्नमातुरः। अल्पमूत्रपुरीषश्च" इति। उपाय उपगमनं व्याधिमेलक इत्यर्थः, यदुक्तम्- "सहसा ज्वरसन्तापस्तृष्णा मूर्छा बलक्षयः। विश्लेषणच सन्धीनाम्" इति । व्याध्यपगमनमपायः यदुक्तम्-'यं नरं सहसा रोगो दुर्बलं परिमुञ्चति" इत्यादि । व्याधिश्चेति व्याधिरेव रिष्टं यथा-"वाताष्ठीला सुसंवृत्ता दारुणा हृदि तिष्ठति” । इति। छाया भौतिकी पञ्चरूमा। प्रतिच्छाया तु देहछायावत् नेत्रकुमारिकापि प्रतिच्छायारूपापि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy