________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
इन्द्रियस्थानम् ।
२१४६ तत्र प्रकृतिर्जातिप्रसक्ता कुलप्रसक्ता च दशानुपातिनी 8 च कालानुपातिनी च वयोऽनुपातिनी च प्रत्यात्मनियता चेति । एतावज्जातिकुलदशाकालक्या प्रत्यात्मनियता हि तेषां तेषां पुरुषाणां ते ते भावविशेषा भवन्ति ॥ ३॥ तकतोऽनुमानतश्च। युक्त्यपेक्षो हि तोऽनुमानं न तकभिन्नम्। प्रकृतितः सहजस्वरूपतः। विकृतितः सहजस्वरूपवैपरीत्यतः॥२॥
गङ्गाधरः-प्रकृतिः पोढ़ेत्यभिप्रायेणाह-तत्र प्रकृतिर्जातिप्रसक्तेत्यादि। जातिप्रसक्ता, प्रकृतिर्जातिः ब्राह्मणादिस्तत्स्वभावेन या प्रकृतिः प्रसज्यते सा। कुलप्रसक्ता, तत्रापि यत्कुले जातः पुरुषस्तद्वंशे जातानां पुरुषाणां या या प्रकृतिः प्रसक्ता सा। दशानुपातिनी, व्यापत्सम्पदातुर्यानातुर्यादिषु दशासु यस्यां दशायां या प्रकृतिः सम्पतति यादृशरूपेण तदनुरूपेण या दशा पतति सा दशानुपातिनी। कालानुपातिनी, यस्मिन् काले वसन्तादौ कृतयुगादौ च यादृशरूपेण प्रकृतिः पतति तदनुरूपेण पतनशीला प्रकृतिः कालानुपातिनी। वयोऽनुपातिनी, यस्मिन् वयसि शिशुबालपोगण्डकिशोरयुवमध्यटद्धान्यतमस्मिन् पतनशीला या प्रकृतिस्तदनुरूपेणैतस्मिन् वयसि पतनशीला प्रकृतिर्वयोऽनुपातिनी। प्रत्यात्मनियता, प्रत्येकपुरुषे नियता या प्रकृतिः सा प्रत्यात्मनियता। ते ते भावविशेषाः तेपां तेषां पुरुषाणां ये ये वर्णादयस्ते ते भावविशेषाः एतावत्सु जातिकुलदशाकालवयःप्रत्यात्मसु नियताः। हि यस्मात वर्णादयः शौचादयश्च भावाः पुरुषाणां जातिनियताश्च भवन्ति, कुलदृतादीनामागमादेव ज्ञायते। पुरुषाश्रयिवर्णादिगतरिष्टग्रहणे तु प्रत्यक्षमपि तत्तदरिष्टविशेषग्रहणे तत्तविशेषेण व्याप्रियत इति मत्वा तत् प्रतिषिद्धम्। अनुमानन्तु रिष्टत्वेन प्रति. पादितमनिमित्तत्वादिति धर्मविचारे व्याप्रियते। एवं सर्वत्र । प्रकृतितश्चेति विकृतिज्ञानहेतुतया प्रकृतिरिष्टज्ञाने व्याप्रियते, यत् प्रकृतिज्ञानाधीनं विकृतिविज्ञानं भवति । परीक्षा स्वनाधि. कृता प्रसिद्धैः प्रत्यक्षादिभिरेव ज्ञेया ॥२॥
चक्रपाणिः-प्रकृतिं विभजते-तप्रेत्यादि। जातिप्रसक्ता यथा--ब्राह्मणजातौ शौचम् । कुलप्रसक्ता यथा-किञ्चिदेव कुलं शुच्याचारवट भवति । देशानुपातिनी यथा- अन्तर्वेदिवासिनः शुचयो भवन्ति। कालानुपातिनी यथा-कृतयुगे शौचम्। वयोऽनुपातिनी यथा-बाल्ये. ऽशौचम् । प्रत्यात्मनियता यथा---कश्चिदेव पुरुषः प्रकृत्या शुचिर्भवति इत्यायदाहरणीयम्। . . * देशानुपातिनीति चक्रः ।
For Private and Personal Use Only