________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम् ।
२१३६ भोजयेत्, नतः सम्पद्यते शुभम् । ३। चतुथ दिवसे मासे वर्ष वा गृह्णाति मुखमुण्डतिका नाम मातृका । तया गृहीतमात्रस्य प्रथमं भवति उवरः। ग्रीवां नमयति चक्षुरुन्मीलति स्तन्यं न गृह्णाति रोदिति स्वपिति मुष्टिं वनाति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्। नदुप्रभयतटमृत्तिकां गृहीला पुत्तलिकां कृखोत्पलपुष्पगन्धताम्बूलं दश वजाश्चखारः प्रदीपाः त्रयोदश स्वस्तिका मत्स्यमांससुराग्रभक्तश्चोत्तरस्यां दिश्यपराहे चतुष्पथे बलियः । ॐ नमो रावणाय हन हन मुश्च मुश्च स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । ४ । पञ्चमे दिवसे मासे वर्षे वा गृह्णाति कटपूतना नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । गात्रमुद्रेजयति स्तन्यं न गृह्णाति मुष्टिश्च बनाति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । कुम्भकारचक्रमृत्तिकां गृहीला पुत्तलिकां कृखा गन्धं ताम्बूलं शुक्लौदनं शुक्लपुष्पं पञ्च ध्वजाः पञ्च प्रदीपाः पञ्च वटकाः ऐशान्यां दिशि बलियः । शान्त्युदकेन नापयेत् । शिवनिर्माल्यसर्पनिर्मोकगुगगुलुनिम्बपत्रवालकघृतेधूपं दद्यात्। ॐ नमो रावणाय चूर्णय चूर्णय स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत् । ततः सम्पद्यते शुभम् । ५ । षष्ठे दिवसे मासे वर्षे वा गृह्णाति शकुनिका नाम मातृका । तया गृहीत. मात्रस्य प्रथमं भवति ज्वरः। गात्रभेदश्च दर्शयति दिवा रात्रावुत्थानं भवत्यूद्ध निरीक्षते। बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । पिष्टकेन पुत्तलिकां कृता शुक्लपुष्पं रक्तपुष्पं पीतपुष्पं गन्धं ताम्बूलं दश प्रदीपाः । पीतदशध्वजाः दश स्वस्तिका दश वटकाः क्षीरजम्बुड़िका मत्स्यमांससुरानभक्तश्चाग्नेय्यां ग्रामनिष्क्रान्ते मध्याह्न बलिं दद्यात् । शान्त्युदकेन स्नापयेत् । शिवनिर्माल्यरसोनगुग्गुलुसर्पनिमौकनिम्बपत्रघृतेषू पयेत् । . नमो रावणाय हन हन मुश्च मुश्च स्वाहा। चतुथ दिवसे ब्राह्मणान भोजयेत्, ततः सम्पद्यते शुभम्। ६ । सप्तमे दिवसे मासे वर्षे वा गृह्णाति शुष्करेवती नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । गात्रमुद्वेजयति मुष्टिं बध्नाति रोदिति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । रक्तपुष्पं शुक्लपुष्पं गन्धं ताम्बूलं रक्तौदनं कुशरां त्रयोदश स्वस्तिकास्त्रयोदश शष्कुलिका जम्बुड़िकाः। मत्स्यमांससुरास्त्रयोदश रक्तध्वजाः पञ्च प्रदीपाः पश्चिम दिशि ग्रामनिष्क्रामेऽपराहे वृक्षमाश्रित्य बलिं दद्यात् । शान्त्युदकेन स्नापनं गुग्गुलुमेषशृङ्गसर्षपोशीरबालकघृतधू पयेत् । ॐ
For Private and Personal Use Only