________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१३८
चरक-संहिता। जातिसूत्रीयं शारीरम् ग्रहोपसृष्टा वालास्तु दुश्चिकित्स्यतमा मताः॥ वैकल्यं मरणश्चाशु ध्रवं स्कन्दग्रहे मतम् । स्कन्धग्रहोऽत्युग्रतमः सबैष्वेव यतः स्मृतः॥ अन्यो वा सर्वरूपस्तु न साध्यो ग्रह उच्यते ॥ इति ।
अथ रावणकृतकुमारतन्त्रे नन्दाप्रभृतिद्वादशमातृका बालग्रहा उक्ताः प्रतिकाराश्च तासाम् । तद् यथा-प्रथमे दिवसे मासि वर्षे वा गृह्णाति नन्दा नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः। अशुभशब्द मुञ्चत्यात्कारश्च भवति स्तन्यं न गृह्णाति। बलिं तस्याः प्रवक्ष्यामि येन सम्पद्यते शुभम् । नदुरभयतटमृत्तिकां गृहीखा पुत्तलिकां कृता शुक्लभक्तं शुक्लपुष्पं सप्त ध्वजाः सप्त प्रदीपाः सप्त स्वस्तिकाः । सप्त शष्कुलिकाः सप्त जम्बुड़िका गन्धं धूपं ताम्बलं मत्स्यं मांसं सुरामग्रभक्तञ्च पूर्वस्यां दिशि चतुष्पथे मध्याह्न बलिर्दातव्या । अश्वत्थपत्रं कुम्भे प्रक्षिप्य बालं शान्तुादकेन स्नापयेत्। रसोनसिद्धार्थमेषशृङ्गनिम्बपत्रशिवनिर्माल्यैर्वालं धूपयेत् । अनमो रावणाय हन हन मुश्च मुञ्च स्वाहा । चतुथ दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । १। द्वितीये दिवसे मासे वर्षे वा गृह्णाति सुनन्दा नाम मातृका । सया गृहीतमात्रस्य प्रथमं भवति ज्वरः । चक्षुरुन्मीलति गात्रमुद्वेजयति न शेते क्रन्दति स्तन्यं न गृह्णात्यात्कारश्च भवति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । तण्डुलं हस्तपृष्ठे के गृहीखा दधिगुड़घृतमिश्रितं शरावैकं गन्धं ताम्बूलं पीतपुष्पं पीतसप्तध्वजाः चखारः प्रदीपा दश स्वस्तिकाः मत्स्यमांससुरातिलचूर्णञ्च पश्चिमस्यां दिशि चतुष्पथे वलियः, दिनानि त्रीणि सन्ध्यायाम् । ततः शान्त्युदकेन स्नापयेत् । शिवनिर्माल्यसिद्धार्थमार्जारलोमोशीरकबालकतैध पं दद्यात् । ॐ नमो रावणाय हन हन मुञ्च मुश्च ह फट स्वाहा। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । २। तृतीये दिवसे मासे वर्षे वा गृह्णाति पूतना नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । गात्रमुद्वेजयति स्तन्यं न गृह्णाति मुष्टिं वनाति क्रन्दत्यद्ध निरीक्षते। बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्। नदुरभयतटमृत्तिकां गृहीखा पुत्तलिकां कृता गन्धं ताम्बूलं रक्तपुष्पं रक्तचन्दनं रक्तसप्तध्वजाः सप्त प्रदीपाः सप्त स्वस्तिकाः पक्षिमांसं मुराग्रभक्तश्च दक्षिणस्यां दिश्यपराह्ने चतुष्पथे बलिदेयः। शिवनिर्माल्यसर्षपगुग्गुलुनिम्बपत्रमेषशृङ्गैदिनत्रयं धृपयेत् । ॐ नमो रावणाय हन हन मुञ्च मुश्च त्रासय त्रासय स्वाहा। चतुर्थे दिवसे ब्राह्मणान
For Private and Personal Use Only