________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४०
चरक-संहिता। जातिसूत्रीयं शरीरम् नमो रावणाय दीप्ततेजसे हन हन मुश्च मुश्च स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत् । ततः स्वस्थो भवति बालकः । ७। अष्टमे दिवसे मासे वर्षे वा गृह्णात्याय्यका नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । गृधगन्धः पूतिगन्धश्च जायते आहारञ्च न गृह्णाति उद्वेजयति गात्राणि । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम्। रक्तपीतध्वजाश्चन्दनं पुष्पं शष्कुल्यः पर्पटिकाः मत्स्यमांसजम्बुड़िकाः सुराः प्रत्यूषे बलिदेयः । ॐ रावणाय त्रैलोक्यविद्रावणाय चतुहिशमोक्षणाय ज्वल ज्वल हन हन दह दह ॐ ह्रीं फट फट् स्वाहा। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । ८ । नवमे दिवसे मासि वर्षे वा गृह्णाति मूतिका नाम मातृका । तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । नित्यं छर्दिर्भवति गात्रभङ्गं दर्शयति मुष्टिं बध्नाति खापो भवति। बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । नदुप्रभयतटमृत्तिकां गृहीखा पुत्तलिकां कृषा शुक्लवस्त्रेणावेष्टयेत् । शुक्लपुष्पं गन्धं ताम्बूलं शुक्लत्रयोदश ध्वजाः त्रयोदश प्रदीपाः त्रयोदश स्वस्तिकाः। त्रयोदश पूपिकाः त्रयोदश मत्स्यपोलिका मत्स्यमांससुरा उत्तरदिग्भागे ग्रामनिष्क्रामे बलिदतिव्यः। शान्त्युदकेन स्नापयेत्। गुग्गुलुनिम्बपत्रगोशृङ्गश्वेतसपंपघृतधूपयेत् । ॐ नमो रावणाय चतुर्भुजाय हन हन स्वाहा। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्। ततः स्वस्थो भवति बालकः । ९। दशमे दिवसे मासे वर्षे वा गृह्णाति निता नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । गात्रमुद्वेजयति आत्कारश्च भवति रोदिति मूत्रं पुरीपश्च भवति । बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । पारावारमृत्तिकां गृहीखा पुतलिकां कृखा गन्धं ताम्बूलं रक्तपुष्पं रक्तचन्दनं पञ्च वर्णाः पञ्च ध्वजाः पञ्च प्रदीपाः पञ्च स्वस्तिकाः पञ्च पूपिकाः मत्स्यमांससुरा वायव्यां दिशि बलिं दद्यात्। काविष्ठागोमांसगाशृङ्गरसोनमार्जारलोमनिम्बपत्रघृतै पयेत् । ॐ नमो रावणाय चूर्णितहस्ताय मुश्च मुश्च स्वाहा। चतुर्थे दिवसे ब्राह्मणान् भोजयेत्, ततः सम्पद्यते शुभम् । १० । एकादशे दिवसे मासे वर्ष वा गृह्णाति पिलिपिछिका नाम मातृका। तया गृहीतमात्रस्य प्रथमं भवति ज्वरः। आहारं न गृह्णात्यूद्ध दृष्टिभवति आतकारश्च भवति। बलिं तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । पिष्टकेन पुत्तलिकां कृखा रक्तचन्दनरक्तां तस्या मुखौं दुग्धेन सेचयेत् । पीतपुष्पं गन्धं ताम्बूलं पीतसप्तध्वजाः सप्त प्रदीपा अष्टौ वटका अष्टौ शष्कुल्यो मत्स्य
For Private and Personal Use Only