________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२२ चरक-संहिता। जातिसूत्रीयं शारीरम् स्निग्धोऽनुनादी गम्भीरसमुत्थो धीरः स्वरः। नातिस्थूलौ नातिकृशौ विस्तारोपपन्नावास्यप्रच्छादनौ रक्तावोष्ठौ। महत्यौ हनू । वृत्ता नातिमहती ग्रीवा। व्यूढ़मुपचितमुरः। गूढ़ जत्रु पृष्ठवंशश्च। विप्रकृष्टान्तरौ स्तनौ। अंसानुपातिनी स्थिरे पावें । वृत्तपरिपूर्णायतो बाहू सक्थिनी अङ्गलयश्च । महदुपचितं पाणिपादम्। स्थिरावृत्ताःस्निग्धास्ताम्रास्तुङ्गाः कूर्माकाराः करजाः। प्रदक्षिणावर्त्ता सोत्सङ्गा च नाभी। नाभ्युरस्त्रिभागहीना समा समुपचितमांसा कटी। वृत्तौ स्थिरोपचितमांसौ नात्युन्नतौ नात्यवनती स्फिचौ। अनुपूर्व वृत्तावुपचययुक्तावूरू।नात्युपचिते नात्यपचिते इत्यादिना स्वरलक्षणम्। येन शब्देन भाषते स शब्दः कण्ठस्य स्वरः। महान् हान्, अदीनः अक्षीणः, स्निग्धोऽकर्कशः श्रुतौ मधुर इत्यर्थः । अनुनादी प्रतिध्वनिमान, गम्भीरसमुत्थो नामित इव प्रपद्यते इति लक्ष्यते घोषरूपः । धीरः अशीघ्रः । नातिस्थलावित्यादिनौष्ठलक्षणम् । आस्यप्रच्छादनौ सम्पुटरूपी न विवृतरूपौ, स्वभावतो दन्तानाच्छाद्य सततं वर्तिनौ। द्वे हनू महत्यौ। वृत्तेत्यादि ग्रीवालक्षणम् । ग्रीवा वृत्ता वर्तुला नातिमहती नातिहती। घ्यू दमित्यादिना वक्षोलक्षणम् । व्यूहूं वृहत् उपचितं मांसलतया वृद्धिमत् । गूढं गुप्तमव्यक्तमित्यर्थः । जत्रु कण्ठोरसोः सन्धिः। पृष्ठवंशश्च गूढ़ इत्यन्वयो लिङ्गविपर्ययेण। विप्रकृष्टं न सनिकृष्टमन्तरमन्तरालदेशो ययोस्तौ स्तनौ। अंसेत्यादिना पार्श्वलक्षणम् । अंसौ भुजयोरुपरिभागौ तावनु लक्षीकृत्य पतितु शीलं ययोस्ते अंसानुपातिनी, स्थिरे अश्लथे च पाश् । वृत्तेत्यादिना बाहुलक्षणम् । वृत्तौ वर्तुलौ परिपूर्णी घनी आयतौ दीयो च बाह सथिनी च वृत्ते परिपूर्ण आयते। अङ्गुलयश्च वृत्ताः परिपूर्णा आयताश्चेति। लिङ्गवचन विपर्ययेण अन्वयः । महदित्यादिना पाणिपादलक्षणम् । उपचितं मांसलम् । स्थिरा इत्यादिना नखलक्षणम् । सोत्सङ्गा अन्तोनतत्वेन मध्यनिम्ना गभीरेत्यर्थः । नाभ्युरसोमध्ये यावन्मानं तस्य तृतीयभागहीना द्विभागयुक्ता, समा नोच्चावचा कटी। वृत्तावित्यादि स्फिक्लक्षणम् । स्थिरमश्लथमुपचिनं वृद्धं मांसं ययोरतो ग्रहण्व नेत्रस्यापाङ्गस्य लब्धस्यापि पुनः करणं विशेषेणापाङ्गशोभोपदर्शनार्थम् । आस्यप्रच्छादनी
For Private and Personal Use Only