________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
“म अध्यायः । शारीरस्थानम् ।
२१२३ एणीपदे प्रगूढसिरास्थिसन्धी जङ्घ । नात्युपचितौ नात्यपचितो गुल्फो । पूर्वोपदिष्टगुणौ पादौ कूर्माकागै। प्रकृतियुक्तानि वातमूत्रपुरीषाणि तथा स्वप्नजागरणायासस्मितरुदितस्तनग्रहणानि। यच किञ्चिदन्यदनुक्तमस्ति तदपि सर्व प्रकृतिसम्एन्नमिष्टम, विपरीतं पुनरनिष्टम् । इति दीर्घायुलनणानि ॥ ४६॥
अतो धात्रीपरीक्षामुपदेक्ष्यामः। अथ ब्र याद् धात्रीमानयेति। समानवणों यौवनस्थां निभृतामनातुरामव्यङ्गामव्यसनाम् तथा नात्युच्चनातिनीची। अनुपूर्ववृत्तावित्यादिनोरुलक्षणम् । अनुपूर्व क्रमेण वृत्तौ वत्तु लो क्रमेण च मांसलौ। नात्युपेत्यादिना जङ्घालक्षणम्। एणीपदे हरिणीसमपादे। प्रगढसिरे अस्फुटसिरास्थिसन्धिमती जङ्घ । नात्युपेत्यादिना गुल्फलक्षणम्। पूर्वोपदिष्टगुणौ महदुपचितं पाणिपादमित्युक्त्या महान्तौ चोपचितौ च पादावित्यर्थः। पुनः कूर्माकारौ कूर्म पृष्ठवत् मध्योन्नतौ । प्रकृतियुक्तानीत्यविकृतानि वातादीनि, तथा प्रकृतियुक्तानि स्वमादीनि। यच्च किञ्चित् अनुक्तं पार्थादिपाणिपाद विहरणादि। विपरीतं यस्य यस्याङ्गस्य यदयल्लक्षणमुक्तं तद्विपरीतम् अनिष्टमदीर्घायुलक्षणम्। इति दीर्घायुर्लक्षणं शतायुलेक्षणम् ॥ ४६॥
गङ्गाधरः---कुमारस्यायुःपरीक्षानन्तरं किं कार्यमित्यत आह-अत इत्यादि। समानवर्णामिति । वर्णोऽत्र किं वेदे वर्णवेनोपदिष्टजातिः ? किं शरीरस्य रूपम् ? नाद्यः । शूद्राः खलु सन्ति वयो जातयः। शूद्रत्वेन तास्तु सर्वाः समानाश्वेत मनुष्यत्वेन ब्राह्मणादयोऽपि समाना भवन्तु। न वान्त्यम् । सर्वेषां न ाकं रूपं ब्राह्मणक्षत्रियादीनाञ्चैकदेशेन समानरूपत्वमस्तीति । तस्मादत्र वर्णो वेद शुक्लादिवर्णत्वेनोपदिष्टा जातिरुपलक्षणीया प्राधान्यात् समानजातिरित्यर्थः । निभृतामनुद्धताम् । अव्यङ्गां सव्वेसम्पूर्णाङ्गी नाङ्गहीनाम्। अव्यसनां काममुखावरको। पृष्ठवंशश्च गूढ इति योजनीयम्। असम्पातिनी सुनिर्गतकक्षे। एणीपदे इति एणीजडासदृशे। प्रकृतियुक्तानीति न बहूनि नात्यल्पानि च, प्रकृतियुक्तमिति देहानुरूपम् ॥ ४६॥
क्रपाणिः-समानवर्णामिति तुल्यजातीयाम् । 'यौवनस्थाम्' इत्यनेन न बालावृद्धे। बाला
For Private and Personal Use Only