SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः शारीरस्थानम् । २१२१ सम्पन्नमुचितं बलिनमर्द्धचन्द्राकुति ललाटम्, वहलो विपुलसमपीठौ समौ नोचैवृद्धौ पृष्ठतोऽवनती सुश्लिष्टकर्णपुत्रको महाच्छिद्रौ कौँ । ईषत्प्रलम्बिन्यावसङ्गते समे संहते महत्यौ भ्र वौ। समे समाहितदर्शने व्यक्तभागविभागे बलवती तेजसोपपन्ने स्वगापाङ्गं चक्षुषी। ऋज्वी महोच्छासा वंशसम्पन्ना ईषदनवनतामा नासिका। महद् ऋजु सुनिविष्टदन्तमास्यम्। आयामविस्तारोपपन्ना श्लपणा तन्वी प्रकृतियुक्ता पाटलवर्णा जिह्वा। श्लक्ष्णं युक्तोपचयमुष्मोपपन्नं रक्तं तालु।महान् अदीनः व्यञ्जनमर्दाकारस्तेन सम्पन्नम्। उपचितं वृद्धिमत् । बलिनं बलिमत् । अर्द्धचन्द्राकृति च ललाट प्रशस्यते इत्यन्वयः। वहलावित्यादिना कर्णलक्षणम् । विपुलतया समपीठौ नीचैट द्धौ लतिकाभागतो वृद्धौ। पृष्ठतः पश्चादभागेनावनतो नम्रौ। सुश्लिष्टौ कर्णपुत्रको वाह्यकर्णग्रन्थी ययोस्तौ। ईषदित्यादिनाभ्र लक्षणम् । ईषत्मलम्बिन्यो नातिलम्बनातिहासरूपे नातिविच्छिन्नमध्ये इत्यसङ्गते समे समानरूपे संहते घनलोमवत्यौ महत्यौ स्थले। समे इत्यादिना चक्षुर्लक्षणम् । समे समानरूपे, समाहितदर्शने सम्यगाहितदृष्टिभागे, भागाः शुक्लकृष्णादयः तेषां विभागा व्यक्ता ययोस्ते तथा, बलवती दर्शनबलयुक्ते, तेजसा दूरदृष्टयादिलक्षितेन उपपन्ने, सुष्टु अङ्गानि वादीनि अपाङ्गी च ययोस्तथा। ऋज्वीत्यादि नासिकालक्षणम्। ऋज्वी सरला, महोच्छासा दृहनिश्वासयुक्ता, वंशसम्पन्नेति दीर्घवंशाकारतया सम्पन्ना, ईषदवनतारा अल्पनम्राग्रभागा। महदित्यादिनास्यलक्षणम्। आस्यं मुखच्छिद्ररेखा महद दीर्घतया वृहत् ऋजु सरल सुनिविष्टं सुष्टु निवेशः स्थानं युक्तदन्तपंक्ति तदयुक्तम् । आयामेत्यादिना जिह्वालक्षणम्। आयामेन दैण विस्तारेण विस्तृततया उपपन्ना, श्लक्ष्णा अखरा, तन्वी अघना, प्रकृतियुक्ता अविकृता, पाटलवर्णा श्वेतरक्तवर्णा । श्लक्ष्णमित्यादिना तालुलक्षणम्। श्लक्ष्णमखरं युक्तोपचयं नातिनिम्न नात्युच्चम् । उष्मोपपन्नं स्वाभाविकेनोष्मणा सम्पन्न, रक्तं रक्तवर्णम्। महान् भवति, तच्चाप्रशस्तमेव । अर्द्ध व्यञ्जनमिति अर्द्धरेखात्रयरूपलक्षणयुक्तम् । जतूकणे हि त्रिरेखं ललाटमुक्तम् । नीचैवृद्धाविति अनुदमूतौ सन्तावनुक्रमवृद्धौ। व्यक्तभागविभागे इति प्रव्यक्तकृष्णशुक्लविभागे। शोभनानि वादीनि अङ्गानि अपाङ्गे च ययोस्ते स्वाङ्गोपाङ्गे । अत्र 'अङ्ग' २६६ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy