________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१२०
चरक-संहिता। जातिसूत्रीय शारीरम् कृते च नामकर्मणि कुमारं परीक्षितुमुपक्रमेतायुषः प्रमाणज्ञानहेतोः। तत्रेमान्यायुष्मतां कुमाराणां लक्षणानि भवन्ति। तद् यथा---एकैकजा मृदवोऽल्याः स्निग्धाः सुबद्धमूलाः कृष्णाः केशाः प्रशसान्ते। स्थिरा बहला त्वक, प्रकृत्याकृतिसम्पन्नमीषत्प्रमाणातिरिक्तम् अनुरूपमातपत्रोपमं शिरः प्रशस्यते । व्यूढ़ समं सुश्लिष्टशवसन्ध्यर्द्धव्यञ्जन-8. वजम् । अनवप्रतिष्ठितं नवीनसङ्केतितवज्ज प्रसिद्धप्रतिष्ठितम् । नक्षत्राणि अश्विन्यादीनि तत्कुमारजन्मकालिकानि। नक्षत्रदेवता अश्वियमदहनादयः तत्र यज्जन्मनक्षत्रं तस्य नामसंयुक्त अन्यतरनामसंयुक्तं द्वाक्षरं चतुरक्षरं वा कृतं नाम नाक्षत्रिकम् । सुश्रुतेऽप्युक्तं-ततो दशमेऽहनि मातापितरौ कृतमङ्गलकौतुकौ स्वस्तिवाचनं कृखा नाम कुर्यातां यदभिप्रेतं नक्षत्रनाम वा। इति । अत्र दशमेऽहनीति श्रेष्ठलाद ब्राह्मणाभिप्रायेण तत्रोपलक्षणादशौचान्तदिने सर्वेषामित्यर्थः ॥४५॥
गङ्गाधरः-नामकरणानन्तरं किं कार्यमित्यत आह-कृते चेत्यादि । एकैकजाः पृथक् पृथगजाता इत्यादीनि सर्वाणि केशा इत्यस्य विशेषणानि । स्थिरेत्यश्लथा बहला स्थूला व चर्म । प्रकृत्येत्यादिना शिरोलक्षणं, प्रकृतिरविकृतिराकृतिस्तया सम्पन्नं शिरः प्रायेण शरीरानुरूपमीपत्प्रमाणातिरिक्तम्। आतपत्रोपमं छत्रोपमम् । व्यहमित्यादि ललाटलक्षणम्। व्यहं हत दृढं गाद सममनुच्चावचं सुष्टु श्लिष्टः संमिलितैः शङ्खसन्धिभिरर्द्धकारयेत् नाक्षत्रिकम् आभिप्रायिकञ्च, इत्यादि पाठः। घोषवदित्यादि विशेषणम्, घोपा वर्गचतुर्था 'घझडधभाः,' अन्त्यस्था 'यरलवाः', 'शपसाः' उष्माणः ॥ ४५ ॥
चक्रपाणिः--- नामकर्मणीति नामकरणसमयक्रियमाणहोमादिकमणि, नामैव वा कर्म । स्थिरेत्यश्लथा। ईपत्प्रमाणातिवृत्तं शिर इति उत्सर्गापवादन्यायेन बोद्रव्यम् । तेन यदुक्तं पूर्वम्"पङ्गलोत्सेधं द्वात्रिंशदङ्गुलपरिणाहं शिरः" एतच्चाभिधायोक्तम् --- "तत्रायुबलमित्यादि यावत: प्रमाणवति शरीरे, विपर्ययस्तु होनेऽधिके वा" इति, एतदवचनादपवादमूतमप्यतीव प्रश भवतीति ज्ञेयम् । एवं महदुपचितं पाणिपादम् इत्यत्रापि व्याख्येयम्। अनुरूपमित्यनेन शरीरानुरूपतां शिरसो दर्शयन् उक्तलक्षणादनतिवृद्धि शिरसो दर्शयति, अतिवृद्धिं शरीराननुरूपं
• ऊर्द्ध व्यञ्जनमिति चक्रः।
For Private and Personal Use Only